पुरुषः शयनस्थाया योषितस् तद्-वचन-व्याक्षिप्त-चित्ताया इव नीवीं विश्लेषयेत्। तत्र विवदमानां कपोल-चुम्बनेन पर्याकुलयेत्। ॥२।८।८॥
स्थिर-लिङ्गश् च तत्रैनां परिस्पृशेत्। ॥२।८।९॥
प्रथम-सङ्गता चेत् संहतोर्वोर् अन्तरे घट्टनम्। ॥२।८।१०॥
कन्यायाश् च। ॥२।८।११॥
तथा स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् ग्रीवायाम् इति च। ॥२।८।१२॥
स्वैरिण्यां यथा-सात्म्यं यथा-योगं च। अलके चुम्बनार्थम् एनां निर्दयम् अवलम्बेत् हनु-देशे चाङ्गुलि-सम्पुतेन। ॥२।८।१३॥
तत्रेतरस्य व्रीडा निमीलनं च। प्रथम-समागमे कन्यायाश् च। ॥२।८।१४॥
रति-संयोगे चैनां कथम् अनुरज्यत इति प्रवृत्त्या परीक्षेत। ॥२।८।१५॥
युक्त-यन्त्रेणोपसृप्यमाना यतो दृष्टिम् आवर्तयेत् तत एवैनां पीडयेत्। एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः। ॥२।८।१६॥
गात्राणां स्रंसनं नेत्र-निमीलनं व्रीडा-नाशः समधिका च रति-योजनेति स्त्रीणां भाव-लक्षणम्॥२।८।१८ हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी। ॥२।८।१७॥
तस्याः प्राग् यन्त्र-योगात् करेण सम्बाधं गज इव क्षोभयेत्। आ मृदु-भावात्। ततो यन्त्र-योजनम्। ॥२।८।१९॥
उपसृप्तकं [१]मन्थनं [२]हुलो((२९)) [३]अवमर्दनं [४]पीडितकं [५]निर्घातो [६]वराह-घातो [७]वृष-घातश् [८]चटक-विलसितं [९]सम्पुट इति पुरुषोपसृप्तानि। ॥२।८।२०॥
न्याय्यम् ऋजु-सम्मिश्रणम् उपसृप्तकम्। ॥२।८।२१॥
हस्तेन लिङ्गं सर्वतो भ्रामयेद् इति [१]मन्थनम्। ॥२।८।२२॥
नीची-कृत्य जघनम् उपरिष्टाद् घट्टयेद् इति [२]हुलः। ॥२।८।२३॥
तद् एव विपरीतं स-रभसम् [३]अवमर्दनम्। ॥२।८।२४॥
लिङ्गेन समाहत्य पीडयंश् चिरम् अवतिष्ठेतेति [४]पीडितकम्। ॥२।८।२५॥
सु-दूरम् उत्कृष्य वेगेन स्व-जघनम् अवपातयेद् इति [५]निर्घातः। ॥२।८।२६॥
एकत एव भूयिष्ठम् अवलिखेद् इति [६]वराह-घातः। ॥२।८।२७॥
स एवोभयतः पर्यायेण [७]वृषाघातः। ॥२।८।२८॥
सकृन् मिश्रितम् अ-निष्क्रमय्य द्विस् त्रिश् चतुर् इति घट्टयेद् इति [८]चटक-विलसितम्। ॥२।८।२९॥
रागावसानिकं व्याख्यातं करणं [९]सम्पुटम् इति((३०))। ॥२।८।३०॥
तेषां स्त्री-सात्म्याद् विकल्पेन प्रयोगः। ॥२।८।३१॥