१७ पुरुषायित-प्रकरणम्

१७ पुरुषायित-प्रकरणम्

((२६))

नायकस्य सन्तताभ्यासात् प्रैश्रमम् उपलभ्य रागस्य चान्-उपशमम् अनुमता तेन तम् अधो ऽवपात्य पुरुषायितेन साहाय्यं दद्यात्। ॥२।८।१॥
स्वाभिप्रायाद् वा विकल्प-योजनार्थिनी। ॥२।८।२॥
नयक-कुतूहलाद् वा। ॥२।८।३॥
तत्र युक्त-यन्त्रेणैवेतरेणोत्थाप्यमाना तम् अधः पातयेत्। एवं च रतम् अ-विछिन्न-रसं तथा प्रवृत्तम् एव स्यात्। इत्य् एको ऽप्य् अयं मार्गः। ॥२।८।४॥
पुनर् आरम्भेणादित एवोपक्रमेत्। इति द्वितीयः। ॥२।८।५॥
सा प्रकीर्यमाण-केश-कुसुमा श्वास-विच्छिन्न-हासिनी वक्त्र-संसर्गार्थं स्तनाभ्याम् उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् असौ दर्शितवांस् ता एव प्रकुर्वीत। पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्। पुनश् च व्रीडां((२७)) दर्शयेत्। श्रमं विरामाभीप्सां च। पुरुषोपसृप्तैर् एवोपसर्पेत्। ॥२।८।६॥
तानि च वक्ष्यामः((२८)) ॥२।८।७॥