१५ -१६ प्रहणन-सीत्कार-प्रकरणम्

१५ -१६ प्रहणन-सीत्कार-प्रकरणम्

कलह-रूपं सु-रतम् आचक्षते। विवादात्मकत्वाद् वाम-शीलत्वाच् च कामस्य। ॥२।७।१॥
तस्मात् प्रहणनन्-स्थानम् अङ्गम्। स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि। ॥२।७।२॥
तच् चतुर्-विधम् ण् [१] अपहस्तकं [२] प्रसृतकं [३] मुष्टिः [४] समतलकम् इति। ॥२।७।३॥
तद्-उद्भावं च सीत्कृतम्। तस्याति-रूपत्वात्। तद् अन्-एक-विधम्। ॥२।७।४॥
विरुतानि चाष्टौ। ॥२।७।५॥
[आ]हिङ्कार-[अ२]स्तनित-[अ३]कूजित-[अ४]रुदित-[अ५]सूत्कृत-[अ६]दूत्कृत-[अ७]फूत्कृतानि। ॥२।७।६॥
अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश् चालम्-अर्थास् ते ते [अ८] चाथ-योगात्। ॥२।७।७॥
[ब्१]पारावत-[ब्२]परभृत-[ब्३]हारीत-[ब्४]शुक-[ब्५]मधुकर-[ब्६]दात्यूह-[ब्७]हंस-[ ब्८]कारण्डव-[ब्९]लावक-विरुतानि सीत्-कृत-भूयिष्ठानि विकल्पशः प्रयुञ्जीत। ॥२।७।८॥
उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः। ॥२।७।९॥
तत्र सासूयाया इव [अ२]स्तनित-[अ४]रुदित-[अ३]कूजितानि प्रतिघातश् च स्यात्। ॥२।७।१०॥
युक्त-यन्त्रायाः स्तनान्तरे [१] अपहस्तकेन प्रहरेत्। ॥२।७।११॥
मन्दोपक्रमं वर्धमान-रागम् आ परिसमाप्तेः। ॥२।७।१२॥
तत्र [अ८]हिङ्कारादीनाम् अ-नियमेनाभ्यासेन विकल्पेन च तत्-कालम् एव प्रयोगः। ॥२।७।१३॥
शिरसि किं चिद् आकुञ्चितागुलिना करेण विवदन्त्याः [अ७]फूत्कृत्य प्रहणनं तत् [२] प्रसृतकम्। ॥२।७।१४॥
तत्रान्तर्मुखेन [अ३]कूजितं [अ७]फूत्कृतं च। ॥२।७।१५॥
रतान्ते च श्वासित-रुदिते। ॥२।७।१६॥
फेणोर् इव स्फुटतः शब्दानुकरणं [अ६]दूत्कृतम्। ॥२।७।१७॥
अप्सु बदरस्येव((२२)) निपततः [अ७]फूत्कृतम्। ॥२।७।१८॥
सर्वत्र चुम्बनादिष्व् अपक्रान्तायाः स-सीत्कृतं तेनैव प्रत्युत्तरम्। ॥२।७।१९॥
राग-वशात् प्रहणनाभ्यासे [अ८]वारण-मोक्षणालम् अर्थानां शब्दानां अम्बार्थानां च स-तान्त-श्वासित-रुदित-स्तनित-मिश्री-कृत-प्रयोगा विरुतानां च। रागावसान-काले जघन-पर्श्वयोस्((२३)) ताडनम् इत्य् अ-त्वरया चा परिसमाप्तेः। ॥२।७।२०॥
तत्र [ब्९]लावक-[ब्७]हंस-विकूजितं त्वरयैव। इति स्तनन-प्रहणन-योगाः॥२।७।२२ भवतश् चात्र श्लोकौ। ॥२।७।२१॥
पारुष्यं रभसत्वं च पौरुषं तेज उच्यते। अ-शक्तिर् आर्तिर् व्यावृत्तिर् अ-बलत्वं च योषितः॥ ॥२।७।२२व्॥
रागात् प्रयोग-सात्म्याच् च व्यत्ययो ऽपि क्व चिद् भवेत्। न चिरं तस्य चैवान्ते प्रकृतेर् एव योजनम्॥ ॥२।७।२३व्॥
कीलाम् उसरि कर्तरीं शिरसि विद्धां कपोलयोः सन्दंशिकां स्तनयोः पार्श्वयोश् चेति पूर्वैः सह प्रहणनम् अष्ट-विधम् इति दाक्षिणात्यानाम्। तद्-युवतीनाम् उसरि कीलानि दृश्यन्ते। देश-सात्म्यम् एतत्। ॥२।७।२४॥
कष्टम् अन्-आर्य-वृत्तम् अन्-आदृतम् इति वात्स्यायनः। ॥२।७।२५॥
तथान्यद् अपि देश-सात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत। ॥२।७।२६॥
आत्ययिकं तु तत्रापि परिहरेत्। ॥२।७।२७॥
रति-योगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान। ॥२।७।२८॥
कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महा-देवीं मलयवतीम्। ॥२।७।२९॥
नरदेवः कुपाणिर्((२४)) विद्धया नाटीं काणां चकार((२५))। ॥२।७।३०॥
भवन्ति चात्र श्लोकाः ॥२।७।३१॥
नास्त्य् अत्र का चिन् न च शास्त्र-परिग्रहः। प्रवृत्ते रति-संयोगे राग एवात्र कारणम्॥ ॥२।७।३१व्॥
स्वप्नेषु न दृश्यन्ते ते भावास् ते च विभ्रमाः। सुरत-व्यवहारेषु ये स्युस् तत्-क्षण-कल्पिताः॥ ॥२।७।३२व्॥
यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि। स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते॥ ॥२।७।३३व्॥
एवं सु-रत-सम्मर्दे रागान्धौ कामिनाव् अपि। चण्ड-वेगौ प्रवर्तेते समीक्षेत न चात्ययम्॥ ॥२।७।३३व्२॥
तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च। आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्॥ ॥२।७।३४॥
न सरवदा न सर्वासु प्रयोगाः साम्प्रयोगिकाः। स्थाने देशे च काले च योग एषां विधीयते॥ ॥२।७।३५॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे प्रहणन-प्रयोगास् तद्-युक्ताश् च सीत्कृत-क्रमाः सप्तमो ऽध्यायः। आदितो द्वादशः। ॥२।७च्॥