अथ चित्र-रतानि। ॥२।६।३६॥
ऊर्ध्व-स्थितयोर् यूनोः परस्परापाश्रययोः कुड्य-स्तम्भापाश्रितयोर् वा स्थित-रतम्। ॥२।६।३७॥
कुड्यापाश्रितस्य कण्ठावसक्त-बाहु-पाशायास् तद्-धस्त-पञ्जरोपविष्टाया ऊरु-पाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरण-क्रमेण वलन्त्या अवलम्बितकं रतम्। ॥२।६।३८॥
भूमौ वा चतुष्पदवद् आस्थिताया वृषलीलयावस्कन्दनं धेनुकम्। ॥२।६।३९॥
तत्र पृष्ठम् उरः-कर्माणि लभते। ॥२।६।४०॥
एतेनैव योगेन शौनम् ऐणेयं छागलं गर्दभाक्रान्तं मार्जार-ललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराह-घृष्टकं तुरगाधिरूढकम् इति यत्र यत्र विशेषो योगो ऽ-पूर्वस् तत् तद् उपलक्षयेत्। ॥२।६।४१॥
मिश्री-कृत-सद्भावाभ्यां द्वाभ्यां सह सङ्घाटकं रतम्। ॥२।६।४२॥
बह्वीभिश् च सह गो-यूथिकम्। ॥२।६।४३॥
वारि-क्रीडितकं छागलम् ऐणेयम् इति तत्-कर्मानुकृति-योगात्। ॥२।६।४४॥
ग्रामनारी-विषये((२१)) स्त्रीराज्ये च बाह्लीके बहवो युवानो ऽन्तःपुर-स-धर्माण एकैकस्याः परिग्रह-भूताः। ॥२।६।४५॥
तेषाम् एकैकशो युगपच् च यथा-सात्म्यं यथा-योगं च रञ्जयेयुः। ॥२।६।४६॥
एको धारयेद् एनाम् अन्यो निषेवेत। अन्यो जघनं मुखम् अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः। ॥२।६।४७॥
एतया गोष्ठी-परिग्रहा वेश्या राज-योषा-परिग्राहश् च व्याख्यातः। ॥२।६।४८॥
अधोरतं पायाव् अपि दाक्षिणत्यानाम्। इति चित्र-रतानि। ॥२।६।४९॥
पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः। ॥२।६।५०॥
भवतश् चात्र श्लोकौ ॥२।६।५१॥
पशूनां मृग-जातीनां पतङ्गानां च विभ्रमैः। तैस् तैर् उपायैश् चित्तज्ञो रति-योगान् विवर्धयेत्॥ ॥२।६।५१व्॥
तत्-सात्म्याद् देश-सात्म्याच् च तैस् तैर् भावैः प्रयोजितैः। स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते॥ ॥२।६।५२व्॥
इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे संवेशन-प्रकाराश् चित्र-रतानि च षष्ठो ऽध्यायः। आदितो एकदशः। ॥२।६च्॥