१२

देश-सात्म्याच् च योषित उपचरेत्। ॥२।५।२०॥
मध्य-देश्या आर्य-प्रायाः शुच्य्-उपचाराश् चुम्बन-नख-दन्त-पद-द्वेषिण्यः। ॥२।५।२१॥
बाह्लीक-देश्या आवान्तिकाश् च। ॥२।५।२२॥
चित्र-रतेषु त्व् आसाम् अभिनिवेशः। ॥२।५।२३॥
परिष्वङ्ग-चुम्बन-नख-दन्त-चूषण-प्रधानाः क्षत-वर्जिताः प्रहनण-साध्या मालव्य आभीर्यश् च। ॥२।५।२४॥
सिन्धुषष्ट्ःआनां च नदीनाम् अन्तरालीया औपरिष्टक-सात्म्याः। ॥२।५।२५॥
चण्ड-वेगा मन्द-सीत्कृता आपरान्तिका लाट्यश् च। ॥२।५।२६॥
दृढ-प्रहणन-योगिन्यः खर-वेगा एव अपद्रव्य-प्रधानाः स्त्रीराज्ये कोशालायां च। ॥२।५।२७॥
प्रकृत्या मृद्व्यो रति-प्रिया अ-शुचि-रुचयो निर्-आचाराश् च आन्ध्र्यः। ॥२।५।२८॥
सकल-चतुःषश्टि-प्रयोग-रागिण्यो ऽश्लील-परुष-वाक्य-प्रियाः शयने च स-रभसोपक्रमा महाराष्ट्रिकाः। ॥२।५।२९॥
तथा-विधा एव रहसि प्रकाशन्ते नागरिकाः((१५))। ॥२।५।३०॥
मृद्यमानाश् चाभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः॥२।५।३२ मध्यम-वेगाः सर्व-सहाः स्वाङ्ग-प्रच्छादिन्यः पराङ्ग-हासिन्यः कुत्सिताश्लील-परुष- परिहारिण्यो वानवासिकाः। ॥२।५।३१॥
मृदु-भाषिण्यो ऽनुरागवत्यो मृद्व्यङ्ग्यश्((१६)) च गौड्यः। ॥२।५।३३॥
देश-सात्म्यात् प्रकृति-सात्म्यं बलीय इति सुवर्णनाभः। न तत्र देश्या उपचाराः। ॥२।५।३४॥
काल-योगाच् च देशाद् देशान्तरम् उपचार-वेष-लीलाश् चानुगच्छन्ति तच् च विद्यात्। ॥२।५।३५॥
उपगूहनादिषु च राग-वर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च। ॥२।५।३६॥
वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्। अ-मृष्यमाणा द्वि-गुणं तद् एव प्रतियोजयेत्॥ ॥२।५।३७व्॥
बिन्दोः प्रतिक्रिया माला मालायाश् चाभ्रखण्डकम्। इति क्रोधाद् इवाविष्टा कलहान् प्रतियोजयेत्॥ ॥२।५।३८व्॥
सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्। निलीयेत दशेच् चैव तत्र तत्र मदेरिता॥ ॥२।५।३९व्॥
उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्। मणि-मालां प्रयुञ्जीत यच् चन्यद् अपि लक्षितम्॥ ॥२।५।४०व्॥
दिवापि जनसम्बाधे नायकेन प्रदर्शितम्। उद्दिश्य स्व-कृतं चिह्नं हसेद् अन्यैर् अ-लक्षिता॥ ॥२।५।४१व्॥
विकूणयन्तीव((१७)) मुखं कुत्सयन्तीव((१८)) नायकम्। स्व-गात्र-स्थानि चिह्नानि सासूयेव प्रदर्शयेत्॥ ॥२।५।४२व्॥
परस्परानुकूल्येन तद् एवम् लज्जमानयोः। संवत्सर-शतेनापि प्रीतिर् न परिहीयते॥ ॥२।५।४३व्॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे दशन-च्छेद्य–विधयो देश्याश् चोपचाराः पञ्चमो ऽध्यायः। आदितो दशमः। ॥२।५च्॥