१०

राग-वृद्धौ सङ्घर्षात्मकं नख-विलेखनम्। ॥२।४।१॥
तस्य प्रथम-समागमे प्रवास-प्रत्यागमने प्रवास-गमने क्रुद्ध-प्रसन्नायां मत्तायां च प्रयोगः। न नित्यम् अ-चण्ड-वेगयोः। ॥२।४।२॥
तथा दशन-च्छेद्यस्य सात्म्य-वशाद् वा। ॥२।४।३॥
तद् [१] आच्छुरितकम् [२] अर्ध-चन्द्रो [३] मण्डलं [४] रेखा [५] व्याघ्र-नखं [६] मयूर-पदकं [७] शश-प्लुतकम् [८] उत्पल-पत्त्रकम् इति रूपतो ऽष्ट-विकल्पम्। ॥२।४।४॥
कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि। ॥२।४।५॥
प्रवृत्त-रति-चक्राणां न स्थानम् अ-स्थानं वा विद्यत इति सुवर्णनाभः। ॥२।४।६॥
तत्र सव्य-हस्तानि प्रत्य्-अग्र-शिखराणि द्वि-त्रि-शिखराणि चण्ड-वेगयोर् नखानि स्युः। ॥२।४।७॥
अनुगत-राजि समम् उज्ज्वलम् अ-मलिनम् अ-विपाटितं विवर्धिष्णु मृदु स्निग्ध-दर्शनम् इति नख-गुणाः। ॥२।४।८॥
दीर्घाणि हस्त-शोभीन्य् आलोके च योषितां चित्त-ग्राहीणि गौडाणां नखानि स्युः। ॥२।४।९॥
ह्रस्वानि कर्म-सहिष्णूनि विकल्प-योजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम्। ॥२।४।१०॥
मध्यमान्य् उभय-भाञ्जि महाराष्ट्रकाणाम् इति। ॥२।४।११॥
तैः सु-नियमितैर् हनु-देशे स्तनयोर् अधरे वा लघु-करणम् अन्-उद्गत-लेखं स्पर्श-मात्र-जननाद् रोमाञ्च-करम् अन्ते सन्निपात-वर्धमान-शब्दम् [१] आच्छुरितकम्। ॥२।४।१२॥
प्रयोज्यायां च तस्याङ्ग-संवाहने शिरसः कण्डूयने पिटक-भेदने व्याकुली-करणे भीषणेन प्रयोगः। ॥२।४।१३॥
ग्रीवायां स्तन-पृष्ठे च वक्रो नख-पद-निवेशो [२] अर्ध-चन्द्रः। ॥२।४।१४॥
ताव् एव द्वौ पर्स-पराभिमुखौ मण्डलम्। ॥२।४।१५॥
नाभि-मूल-ककुन्दर-वङ्क्षणेषु((१०)) तस्य प्रयोगः। ॥२।४।१६॥
सर्व-स्थानेषु नाति-दीर्घा [४] लेखा((११))। ॥२।४।१७॥
सैव वक्रा [५] व्याघ्र-नखकम् आ स्तन-मुखम्। ॥२।४।१८॥
पञ्चभिर् अभिमुखैर् लेखा चूचुकाभिमुखी((१२)) [६] मयूर-पदकम्। ॥२।४।१९॥
तत्-सम्प्रयोग-श्लाघायाः स्तन-चूचुके सन्निकृष्टानि पञ्च-नख-पदानि [७] शश-प्लुतकम्। ॥२।४।२०॥
स्तन-पृष्ठे मेखला-पथे चोत्पल-पत्त्राकृतीत्य् [८] उत्पल-पत्त्रकम्। ॥२।४।२१॥
ऊर्वोः स्तन-पृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो वा लेखाः। ॥२।४।२२॥
इति नख-कर्माणि। ॥२।४।२२च्॥
आकृति-विकार-युक्तानि चान्यान्य् अपि कुर्वीत। ॥२।४।२३॥
विकल्पानाम् अनन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् रागात्मकत्वाच् छेद्यस्य प्रकारान् को ऽभिसमीक्षितुम् अर्हतीत्य् आचार्याः॥२।४।२५ भवति हि रागे ऽपि चित्रापेक्षा। वैचित्र्याच् च परस्परं रागो जनयितव्यः। वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं प्रार्थनीया भवन्ति। धनुर्-वेदादिष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एवापेक्ष्यते किं पुनर् इहेति वात्स्यायनः। ॥२।४।२४॥
न तु पर-परिगृहीतास्व् एवं कुर्यात्। प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरणार्थं राग-वर्धनाच् च विशेषान् दर्शयेत्। ॥२।४।२६॥
नख-क्षतानि पश्यन्त्या गूढ-स्थानेषु योषितः। चिरोत्सृष्टाप्य् अभिनवा प्रीतिर् भवति पेशला((१३))॥ ॥२।४।२७व्॥
चिरोसृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम्। रागायतन-संस्मारि यदि न स्यान् नख-क्षतम्॥ ॥२।४।२८व्॥
पश्यतो युवतिं दूरान् नखोच्छिष्ट-पयोधराम्। बहु-मानः परस्यापि राग-योगश् च जायते॥ ॥२।४।२९व्॥
पुरुषश् च प्रदेशेषु नख-चिह्नैर् विचिह्नितः। चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः॥ ॥२।४।३०व्॥
नान्यत् पटुतरं किं चिद् अस्ति राग-विवर्धनम्। नख-दन्त-समुत्थानां कर्मणां गतयो यथा। ॥२।४।३१व्॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे चतुर्थो ऽध्यायः। आदितो नवमः। ॥२।४च्॥