चुम्बन-नख-दशन-च्छेद्यानां न पौर्वापर्यम् अस्ति। राग-योगात् प्राक् संयोगाद् एषां प्राधायेन प्रयोगः। प्रहण-सीत्कृतयोश् च सम्प्रयोगे। ॥२।३।१॥
सर्वं सर्वत्र। रागस्यानपेक्षितत्वात्। इति वात्स्यायनः। ॥२।३।२॥
तानि प्रथम-रते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत। तथा-भूतत्वाद् रागस्य। ततः परम् अतित्वरया विशेषवत् समुच्चयेन राग-सन्धुक्षणार्थम्। ॥२।३।३॥
ललाटालक-कपोल-नयन-वक्षः-स्तनोष्ठान्तर्-मुखेषु चुम्बनम्। ॥२।३।४॥
ऊरु-सन्धि-बाहु-नाभि-मूलयोर् लाटानाम्। ॥२।३।५॥
राग-वशाद् देश-प्रवृत्तेश् च सन्ति तानि तानि स्थानानि न तु सर्व-जन-प्रयोजानीति वात्स्यायनः। ॥२।३।६॥
तद् यथा ण् [१] निमित्तिकं [२] स्फुरितकं [३] घट्टितकम् इति त्रीणि कन्या-चुम्बनानि। ॥२।३।७॥
बलात्-कारेण नियुक्ता मुखम् आधत्ते न तु विचेष्टत इति [१] निमित्तकम्। ॥२।३।८॥
वदने प्रवेशितं चौष्ठं मनाग् अपत्रपावग्रहीतुम् इच्छन्ती स्पन्दयति स्वम् ओष्ठं नोत्तरम् उत्सहत इति [२] स्फुरितकम्। ॥२।३।९॥
ईषत् परिगृह्य वि-निमीलित-नयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [३] घट्टितकम्। ॥२।३।१०॥
समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे। ॥२।३।११॥
अङ्गुलि-सम्पुटेन पिण्डी-कृत्य निर्दशनम् ओष्ठ-पुटेनावपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम्। ॥२।३।१२॥
द्यूतं चात्र प्रवर्तयेत्। ॥२।३।१३॥
पूर्वम् अधर-सम्पादनेन जितम् इदं स्यात्। ॥२।३।१४॥
तत्र जिता सार्ध-रुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्। तत्रापि जिता द्वि-गुणम् आयस्यएत्। ॥२।३।१५॥
विश्रब्धस्य प्रमत्तस्य वाधरम् अवगृह्य दशनान्तर्गतम् अ-निर्गमं कृत्वा हसेद् उत्क्रिशेत् तर्जयेद् वल्गेद् आह्लयेत् प्रनर्तितत्-भ्रूणा च विचल-नयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात्। इति चुम्बन-द्यूत-कलहः। ॥२।३।१६॥
एतेन नख-दशन-च्छेद्य-प्रहणन-द्यूत-कलहा व्याख्याताः। ॥२।३।१७॥
चण्ड-वेगयोर् एव त्व् एषां प्रयोगः। तत्-सात्म्यात्। ॥२।३।१८॥
तस्यां चुम्बन्त्याम् अयम् अप्य् उत्तरं गृह्णीयात्। इत्य् उत्तर-चुम्बितम्॥ ॥२।३।१९॥
ओष्ठ-सन्दंशेनावगृह्याउष्ठ-द्वयम् अपि चुम्बेत। इति सम्पुटकं स्त्रियाः पुंसो वा-जात-व्यञ्जनस्य। ॥२।३।२०॥
तस्मिन्न् इतरो ऽपि जिह्वयास्या दशनान् घट्टयेत् तालु जिह्वां चेति जिह्वा-युद्धम्। ॥२।३।२१॥
एतेन बलाद् वदन-रदन-ग्रहणं दानं च व्याख्यातम्। ॥२।३।२२॥
समं पीडितम् अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थान-विशेष-योगात्। इति चुम्बन-विशेषाः। ॥२।३।२३॥
सुप्तसय मुखम् अवलोकयन्त्या स्वाभिप्रायेण चुम्बनं राग-दीपनम्। ॥२।३।२४॥
प्रमत्तस्य विवदमानस्य वान्यतो ऽभिमुखस्य सुप्ताभिमुखस्य वा निद्रा-व्याघातार्थं चलितकम्। ॥२।३।२५॥
चिर-रात्राव् आगतस्य शयन-सुप्तायाः स्वाभिप्राय-चुम्बनं प्रातिबोधकम्। ॥२।३।२६॥
सापि तु भाव-जिज्ञासार्थिनी नायकस्यागमन-कालं संलक्ष्य व्याजेन सुप्ता स्यात्। ॥२।३।२७॥
आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छाया-चुम्बनम् आकार-प्रदर्शनार्थम् एव कार्यम्। ॥२।३।२८॥
बालस्य चित्र-कर्मणः प्रतिमायाश् च चुम्बनं सङ्क्रान्तकम् आलिङ्गनं च। ॥२।३।२९॥
तथा निशि प्रेक्षणके स्वजन-समाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलि-चुम्बनं संविष्टस्य वा पादाङ्गुलि-चुम्बनम्। ॥२।३।३०॥
संवाहिकायास् तु नायकम् आकारयन्त्या निद्रा-वशाद् अ-कामाया इव तस्योर्वोर् वदनस्य निधानम् ऊरु-चुम्बनं चेत्य् आभियोगिकानि। ॥२।३।३१॥
भवति चात्र श्लोकः। ॥२।३।३२॥
कृते प्रतिकृतं कुर्याद् ताडिते प्रतिताडितम्। करणेन च तेनैव चुम्बिते प्रतिचुम्बितम्॥ ॥२।३।३२व्॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे चुम्बन-विकल्पास् तृतीयो ऽध्यायः। ॥२।३च्॥