८ आलिङ्गन-विचार-प्रकरणम्
सम्प्रयोगाङ्गं चतुःषष्टिर् इत्य् आचक्षते। चतुःषष्टि-प्रकरणत्वात्। ॥२।२।१॥
शास्त्रम् एवेदं चतुःषष्टिर् इत्य् आचार्य-वादः। ॥२।२।२॥
कलानां चतुःषष्टित्वात् तासां च सम्प्रयोगाङ्ग-भूतत्वात् कला-समूहो वा चतुःषष्टिर् इति। ऋचां दशतयीनां च सञ्ज्ञितत्वात्। इहापि तद्-अर्थ-सम्बन्धात्। पञ्चाल-सम्बन्धाच् च बह्व्-ऋचैर् एषा पूजार्थं सञ्ज्ञा प्रवर्तिता इत्य् एके। ॥२।२।३॥
आलिङ्गन-चुम्बन-नख-च्छेद्य-दशन-च्छेद्य-संवेशन-सीत्-कृत-पुरुषायितौपरिष्टकानाम् आष्टानाम् अष्टधा विकल्प-भेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः। ॥२।२।४॥
विकल्प-वर्गाणाम् अष्टानां न्यूनादिकत्व-दर्शनात् प्रहण-विरुत-पुरुषोपसृप्ति-चित्र-रतादीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायो-वादो ऽयम्। यथा सप्त-पर्णो वृक्षः पञ्च-वर्णो बलिर् इति वात्स्यायनः। ॥२।२।५॥
तत्रा-समागतयोः प्रीति-लिङ्ग-द्योतनार्थम् आलिङ्गन-चतुष्टयम्। [१] स्पृष्टकम् [२] विद्धकम् [३] उद्घृष्टकम् [४] पीडितकम् इति। ॥२।२।६॥
सर्वत्र सञ्ज्ञार्थेनैव कर्मातिदेशः। ॥२।२।७॥
सम्मुखागतायां प्रयोज्यायाम् अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [१] स्पृष्टकम्। ॥२।२।८॥
प्रयोज्यं स्थितम् उपविष्टं वा वि-जने किं चिद् गृह्णाति पयो-धरेण विद्ध्येत्। नायको ऽपि ताम् अवपीड्य गृह्णीयाद् इति [२] विद्धकम्। ॥२।२।९॥
तद् उभयम् अनति-प्रवृत्त-सम्भाषणयोः। ॥२।२।१०॥
तमसि जन-सम्बाधे वि-जने वाथ शनकैर् गच्छतोर् नाति-ह्रस्व-कालम् उद्घर्षणं परस्-परस्य गात्राणाम् [३] उद्घृष्टकम्। ॥२।२।११॥
तद् एव कुड्य-सन्देशेन स्तम्भ-सन्देशेन वा स्फुटकम् अवपीडयेद् इति [४] पीडितकम्। ॥२।२।१२॥
तद् उभयम् अवगत-परस्पराकारयोः। ॥२।२।१३॥
[१] लतावेष्टितकं [२] वृक्षाधिरूढकं [३] तिल-तण्डुलकं [४] क्षीर-नीरकम् इति चत्वारि सम्प्रयोग-काले॥२।२।१५ लतेव शालम् आवेष्टयन्ती चुम्बनार्थं मुखम् अवनमयेत्। उद्धृत्य मन्द-सीत्कृता तम् आश्रिता वा किञ्चिद् रामणीयकं पश्येत् तल् [१] लतावेष्टितकम्। ॥२।२।१४॥
चरणेन चरणम् आक्रम्य द्वितीयेनोरु-देशम् आक्रमन्ती वेष्टयन्ती वा तत्-पृष्ठ-सक्तैक- बाहुर् द्वितीयेनांसम् अवनमयन्ती ईषन् मन्द-सीत्कृत-कूजिता चुमबनार्थम् एवाधिरोढुम् इच्छेद् इति [२] वृक्षाधिरूढकम्। ॥२।२।१६॥
तद् उभयम् स्थित-कर्म। ॥२।२।१७॥
शयन-गताव् एवोरु-व्यत्यासं भुज-व्यत्यासं च स-सङ्घर्षम् इव घनं संस्वजेते तत् [३] तिल-तण्डुलकम्। ॥२।२।१८॥
रागान्धाव् अनपेक्षितात्ययौ परस्परम् अनुविशत इवोत्सङ्ग-गतायाम् अभिमुखोपविष्टायां शयने वेति [४] क्षीर-जलकम्। ॥२।२।१९॥
तद् उभयं राग-काले। ॥२।२।२०॥
इत्य् उपगूहन-योगा बाभ्रवीयाः। ॥२।२।२१॥
सुवर्णनाभस्य त्व् अधिकम् एकाङ्गोपगूहन-चतुष्टयम्। ॥२।२।२२॥
तत्रोरु-सन्दंशेनैकम् ऊरुम् ऊरुद्वयं वा सर्वप्राणं पीडयेद् इत्य् ऊरूपगूहनम्[१]। ॥२।२।२३॥
जघनेन जघनम् अवपीड्य प्रकीर्यमाण-केश-हस्ता नख-दशन-प्रहणन-चुम्बन- प्रयोजनाय तद् उपरि लङ्घयेत् तज् जघनोपगूहनम्[२]। ॥२।२।२४॥
स्तनाभ्याम् उरः प्रविश्य तत्रैव भारम् आरोपयेद् इति स्तनालिङ्गनम्[३]। ॥२।२।२५॥
मुखे मुखम् आसज्याक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् साललाटिका[४]। ॥२।२।२६॥
संवाहनम् अप्य् उपगूहन-प्रकारम् इत्य् एके मन्यन्ते। संस्पर्शत्वात्। ॥२।२।२७॥
पृथक्-कालत्वाद् भिन्न-प्रयोजनत्वाद् अ-साधारणत्वान् नेति वात्स्यायनः ॥२।२।२८॥
पृच्छतां शृण्वतां वापि तथा कथयताम् अपि। उपगूह-विधिं कृत्स्नं रिरंसा जायते नृणाम्॥ ॥२।२।२९व्॥
ये ऽपि ह्य् अ-शास्त्रिताः केचित् संयोगा राग-वर्धनाः। आदरेणैव ते ऽप्य् अत्र प्रयोज्याः साम्प्रयोगिकाः॥ ॥२।२।३०व्॥
शास्त्राणां विषयस् तावद् यावन् मन्द-रसा नराः। रतिचक्रे-प्रवृत्ते तु नैव शास्त्रम् न च क्रमः॥ ॥२।२।३१व्॥
इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे आलिङ्गन-विचारा द्वितीयो ऽध्यायः। ॥२।२च्॥