२२

((५५))

वर्धमाण-प्रणया तु नयिका सपत्नी-नाम-ग्रहणं तद्-आश्रयम् आलापं वा गोत्र-स्खलितं वा न मर्षयेत्। नायक-व्यलीकं च। ॥२।१०।२७॥
तत्र सु-भृशः कलहो रुदितम् आयासः शिरो-रुहाणाम् अवक्षोदनं((५६)) प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्य-भूषणावमोक्षो भूमौ शय्या((५७)) च। ॥२।१०।२८॥
तत्र युक्त-रूपेण साम्ना पाद-पतनेन वा प्रसन्न-मनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्॥२।१०।३० तस्य च वचनम् उत्तरेण योजयन्ती विवृद्ध-क्रोधा स-कच-ग्रहम् अस्यास्यम् उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् हन्यात्। द्वार-देशं गच्छेत्। तत्रोपविश्याश्रु-करणम् इति। ॥२।१०।२९॥
अति-क्रुद्धापि तु न द्वार-देशाद् भूयो गच्छेत्। दोषवत्त्वात्। इति दत्तकः। तत्र युक्तितो ऽनुन्~ईयमाना प्रसादम् आकाङ्क्षेत्। प्रसन्नापि तु स-कषायैर्((५८)) एव वाक्यैर् एनं तुदतीव प्रसन्न-रति-काङ्क्षिणी नायकेन परिरभ्येत। ॥२।१०।३१॥
स्व-भवनस्था तु निमित्तात् कलहिता तथा-विद-चेष्टैव नायकम् अभिगच्छेत्। ॥२।१०।३२॥
तत्र पीठमर्द-विट-विदूषकैर् नायक-प्रयुक्तैर् उपशमित-रोषा तैर् एवानिनीता तैः सहैव तद्-भवनम् अधिगच्छेत्। तत्र च वसेत्। ॥२।१०।३३॥
इति प्रणय-कलहः। ॥२।१०।३३च्॥
भवन्ति चात्र श्लोकाः। ॥२।१०।३४॥
एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्। प्रयुञ्जानो वर-स्त्रीषु सिद्धिं गच्छति नायकः॥ ॥२।१०।३४व्॥
ब्रुवन्न् अपि अन्य-शास्त्राणि चतुःषष्टि-विवर्जितः। विद्वत्-संसदि नात्य्-अर्थं कथासु परिपूज्यते॥ ॥२।१०।३५व्॥
वर्जितो ऽप्य् अन्य-विज्ञानैर् एतया यस् त्व् अलङ्कृतः। स गोष्ठ्यां नर-नारीणां कथास्व् अग्रं विगाहते((५९))॥ ॥२।१०।३६व्॥
विद्वद्भिः पूजिताम् एनां खलैर् अपि सु-पूजितम्। पूजितां गणिका-सङ्घैर् नन्दिनीं को न पूजयेत्॥ ॥२।१०।३७व्॥
नन्दिनी सु-भगा सिद्धा सु-भगं-करणीति च। नारी-प्रियेति चाचार्यैः शास्त्रेष्व् एषा निरुच्यते॥ ॥२।१०।३८व्॥
कन्याभिः पर-योषिद्भिर् गणिकाभिश् च भावतः। वीक्ष्यते बहु-मानेन चतुःषष्टि-विचक्षणः॥ ॥२।१०।३९व्॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे रतारम्भावसानिकं रत-विशेषाः प्रणय-कलहश् च दशमो ऽध्यायः। आदितः पञ्चदशः॥ ॥२।१०च्॥