२१

((५३))

[१]रागवद् [२]आहार्य-रागं [३]कृत्रिम-रागं [४]व्यवहित-रागं [५]पोटा-रतं [६]खल-रतम् [७]अ-यन्त्रित-रतम् इति रत-विशेषाः। ॥२।१०।१४॥
सन्दर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्ध-रागयोः प्रयत्न-कृते समागमे प्रवास-प्रत्यागमने वा कलह-वियोग-योगे तद् [१]रागवत्। ॥२।१०।१५॥
तत्रात्माभिप्रायाद् यावद्-अर्थं च प्रवृत्तिः। ॥२।१०।१६॥
मध्यस्थ-रागयोर् आरब्धं यद् अनुरज्यते तद् [२]आहार्य-रागम्। ॥२।१०।१७॥
तत्र चातुःषष्टिकैर् योगैः सात्म्यानुविद्धैः सन्धुक्ष्य सन्धुक्ष्य रागम् प्रवर्तेत। ॥२।१०।१८॥
तत् कार्य-हेतोर् अन्यत्र सक्तयोर् वा [३]कृत्रिम-रागम्। ॥२।१०।१९॥
तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्। ॥२।१०।२०॥
पुरुशस् तु हृदय-प्रियाम् अन्यां मनसि निधाय व्यवहरेत्। सम्प्रयोगात् प्रभृति रतिं यावत्। अतस् तद् [४]व्यवहित-रागम्। ॥२।१०।२१॥
न्यूनायां कुम्भ-दास्यां परिचारिकायां वा यावद्-अर्थं सम्प्रयोगस् तत् [५]पोटा-रतम्(( ५४))। ॥२।१०।२२॥
तत्रोपचरान् नाद्रियेत। ॥२।१०।२३॥
तथा वेश्याया ग्रामीणेन सह यावद्-अर्थम् [६]खल-रतम्। ॥२।१०।२४॥
ग्राम-व्रज-प्रत्यन्त-योषिद्भिश् च नागरस्य। ॥२।१०।२५॥
उत्पन्न-विस्रम्भयोश् च परस्परानुकूल्याद् [७]अ-यन्त्रित-रतम्। ॥२।१०।२६॥

इति रतानि। ॥२।१०।२६च्॥