२० रतारम्भावसानिक-प्रकरणम्

२० रतारम्भावसानिक-प्रकरणम्

नागरकः सह मित्र-जनेन परिचारकैश् च कृत-पुष्पोपहारे सञ्चारित-सुरभि-धूपे रत्य्-आवासे प्रसाधिते वास-गृहे कृत-स्नान-प्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्॥२।१०।२ दक्षिणतश् चास्या उपवेशनम्। केश-हस्ते वस्त्रान्ते नीव्याम् इत्य् अवलम्बनम्। रत्य्-अर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः। ॥२।१०।१॥
पूर्व-प्रकरण-सम्बद्धैः परिहासानुरागैर् वचोभिर् अनुवृत्तिः। गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम्॥ ॥२।१०।३॥
स-नृत्तं अ-नृतं वा गीतं वादित्रम्। कलासु सङ्कथाः। पुनः पानेनोपच्छन्दनम्। ॥२।१०।४॥
जातानुरागायां कुसुमानुलेपन-ताम्बूल-दानेन च शेष-जन-विसृष्टिः। वि-जने च यथोक्तैर् आलिङ्गनादिभिर् एनाम् उद्धर्षयेत्। ततो नीवी-विश्लेषणादि यथोक्तम् उपक्रमेत। ॥२।१०।५॥
इत्य् अयं रतारम्भः। ॥२।१०।५॥
रतावसानिकं रागम् अतिवाह्या-संस्तुतयोर् इव स-व्रीडयोः परस्परम् अ-पश्यतोः पृथक् पृथग् आचार-भूमि-गमनम्। प्रतिनिवृत्त्य चा-व्रीडायमानयोर् उचित-देशोपविष्टयोस् ताम्बूल-ग्रहणम् अच्छी-कृतं((४४)) चन्दनम् अन्यद् वानुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत्। ॥२।१०।६॥
सव्येन बाहुना चैनां परिरभ्य चषक-हस्तः((४५)) सान्त्वयन् पाययेत्। जलानुपानं वा खण्डक-खाद्यकम् अन्यद् वा प्रकृति-सात्म्य-युक्तम् उभाव् अप्य् उपयुञ्जीयाताम्। ॥२।१०।७॥
अच्छ-रसक-यूषम्((४६)) अम्ल-यवागूं((४७)) भृष्ट-मांसोपदंशानि((४८)) पानकानि चूत-फलानि((४९)) शुष्क-मांसं मातुलुङ्ग-चुक्रकाणि((५०)) स-शर्कराणि((५१)) च यथा-देश-सात्म्यं च। तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपहारेत्। ॥२।१०।८॥
हर्म्य-तल-स्थितयोर् वा चन्द्रिकासेवनार्थम् आसनम्। तत्रानुकूलाभिः कथाभिर् अनुवर्तेत। तद्-अङ्क-संलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्र-पङ्क्ति-व्यक्ती- करणम्। अरुन्धती-ध्रुव-सप्तर्षि-माला-दर्शनं च। ॥२।१०।९॥
इति रतावसानिकम्। ॥२।१०।९च्॥
तत्रैतद् भवति। ॥२।१०।१०॥
अवसाने ऽपि च प्रीतिर् उपचारैर् उपस्कृता। स-विस्रम्भ-कथा-योगै रतिं जनयते पराम्॥ ॥२।१०।१०व्॥
परस्पर-प्रीति-करैर् आत्म-भावानुवर्तनैः। क्षणात् क्रोध-परावृत्तैः क्षणात् प्रीति-विलोकितैः॥ ॥२।१०।११व्॥
हल्लीसक-क्रीडनकैर्((५२)) गायनैर् लाट-रासकैः। राग-लोलार्द्र-नयनैश् चन्द्र-मण्डल-वीक्ष्णैः॥ ॥२।१०।१२व्॥
आद्ये सन्दर्शने जाते पूर्वं ये स्युर् मनोरथाः। पुनर्-वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः॥ ॥२।१०।१३व्१॥
कीर्तनान्ते च रागेण परिष्वङ्गैः स-चुम्बनैः। तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते॥ ॥२।१०।१३व्२॥