अभ्यासाद् अभिमानाच् च तथा सम्प्रत्ययाद् अपि। विषयेभ्यश् च तन्त्र-ज्ञाः प्रीतिम् आहुश् चतुर्-विधाम्॥ ॥२।१।३९व्॥
शब्दादिभ्यो बहिर्-भूता या कर्माभ्यास-लक्षणा। प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु॥ ॥२।१।४०व्॥
अनभ्यस्तेष्व् अपि पुरा कर्मस्व् अ-विषयात्मिका। सङ्कल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी॥ ॥२।१।४१व्॥
प्रकृतेर् या तृतीयस्याः स्त्रियाश् चैवोपरिष्टके। तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु॥ ॥२।१।४२व्॥
नान्यो ऽयम् इति यत्र स्याद् अन्यस्मिन् प्रीति-कारणे। तन्त्र-ज्ञैः कथ्यते सापि प्रीतिः सम्प्रत्ययात्मिका॥ ॥२।१।४३व्॥
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषयात्मिका। प्रधान-फलवत्त्वात् सा तद्-अर्थाश् चेतरा अपि॥ ॥२।१।४४व्॥
प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्र-लक्षणाः। यो यथा वर्तते भावस् तं तथैव प्रयोजयेत्((८))॥ ॥२।१।४५व्॥
इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे प्रमाण-काल-भावेभ्यो रतावस्थापनं प्रीति-विशेषा इति प्रथमो ऽध्यायः। आदितः षष्ठः((९))। ॥२।१च्॥