६ रतावस्थापन-प्रकरणम्

६ रतावस्थापन-प्रकरणम्

शशो वृषो ऽश्व इति लिङ्गतो नायक-विशेषाः। नायिका पुनर् मृगी बडवा हस्तिनी चेति। ॥२।१।१॥
तत्र स-दृश-सम्प्रयोगे सम-रतानि त्रीणि। ॥२।१।२॥
विपर्ययेण वि-षमाणि षट्। वि-षमेष्व् अपि पुरुषाधिक्यं चेद् अनन्तर-सम्प्रयोगे द्वे उच्च-रते। व्यवहितम् एकम् उच्च-तर-रतम्। विपर्यये पुनर् द्वे नीच-रते। व्यवहितम् एकं नीच-तर-रतं च। तेषु समानि श्रेष्ठानि। तर-शब्दाङ्किते द्वे कनिष्ठे। शेषाणि मध्यमानि। ॥२।१।३॥
साम्ये ऽप्य् उच्चाङ्कं नीचाङ्काज् ज्यायः। इति प्रमाणतो नव-रतानि। ॥२।१।४॥
यस्य सम्प्रयोग-काले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्द-वेगः। ॥२।१।५॥
तद्-विपर्ययौ मध्यम-चण्ड-वेगौ भवतः। तथा नायिकापि। ॥२।१।६॥
तत्रापि प्रमाणवद् एव नव-रतानि। ॥२।१।७॥
तद्वत् कालतो ऽपि शीघ्र-मध्य-चिर-काला नायकाः। ॥२।१।८॥
तत्र स्त्रियां विवादः। ॥२।१।९॥
न स्त्री पुरुषवद् एव भावम् अधिगच्छति। ॥२।१।१०॥
सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते। ॥२।१।११॥
सा पुनर् आभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन् सुख-बुद्धिर् अस्याः। ॥२।१।१२॥
पुरुष-प्रतीतेश् चानभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अ-शक्यत्वात्। ॥२।१।१३॥
कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति न स्त्रियम् अपेक्षते न त्व् एवं स्त्रीत्य् औद्दालिकः। ॥२।१।१४॥
तत्रैतत् स्यात् चिर-वेगे नायके स्त्रियो ऽनुरज्यन्ते शीघ्र-वेगस्य भावम् अन्-आसाद्यावसाने ऽभ्यसूयिन्यो भवन्ति। तत् सर्वं भाव-प्राप्तेर् अ-प्राप्तेश् च लक्षणम्। ॥२।१।१५॥
तच् च न। कण्डूति-प्रतीकारो ऽपि हि दीर्घ-कालं प्रिय इति। एतद् उपपद्यत एव। तस्मात् सन्दिग्धत्वाद् अ-लक्षणम् इति। ॥२।१।१६॥
संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते। तच् चाभिमान-संसृष्टं सुखम् इत्य् अभिधीयते॥ ॥२।१।१७व्॥
सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति। पुरुषः पुनर् अन्त एव। एतद् उपपन्नतरम्। न ह्य् अ-सत्यां भाव-प्राप्तौ गर्भ-सम्भव इति बाभ्रवीयाः। ॥२।१।१८॥
तत्रापि ताव् एवाशङ्का-परिहारौ भूयः। ॥२।१।१९॥
तत्रैतत् स्यात् ण् सातत्येन रस-प्राप्ताव् आरम्भ-काले मध्यस्थ-चित्तता नाति-सहिष्णुता च। ततः क्रमेणाधिको राग-योगः शरीरे निर्-अपेक्षत्वम् अन्ते च विरामाभीप्सेत्य् एतद् उपपन्नम् इति। ॥२।१।२०॥
तच् च न। सामान्ये ऽपि भ्रान्ति-संस्कारे कुलाल-चक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्द-वेगता ततश् च क्रमेण पूरणं वेगस्येत्य् उपपद्यते। धातु-क्षयाच् च विरामाभीप्सेति। तस्माद् अन्-आक्षेपः। ॥२।१।२१॥
सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्। धातु-क्षय-निमित्ता च विरामेच्छोपजायते॥ ॥२।१।२२व्॥
तस्मात् पुरुषवद् एव योषितो ऽपि रस-व्यक्तिर् द्रष्टव्या। ॥२।१।२३॥
कथं हि समानायाम् एवाकृताव् एकार्थम् अभिप्रपन्नयोः कार्य-वैलक्षण्यं स्यात्। ॥२।१।२४॥
उपाय-वैलक्षण्याद् अभिमान-वैलक्षण्याच् च। ॥२।१।२५॥
कथम् उपाय-वैलक्षण्यं तु सर्गात्। कर्ता हि पुरुषो ऽधिकरणं युवतिः। अन्यथा हि कर्ता क्रियां प्रतिपद्यते ऽन्यथा चाधारः। तस्माच् चोपाय-वैलक्षण्यात् सर्गाद् अभिमान-वैलक्षण्यम् अपि भवति। अभियोक्ताहम् इति पुरुषो ऽनुरज्यते। अभियुक्ताहम् अनेनेति युवतिर् इति वात्स्यायनः। ॥२।१।२६॥
तत्रैतत् स्याद् उपाय-वैलक्षण्यवद् एव हि कार्य-वैलक्षण्यम् अपि कस्मान् न स्याद् इति। तच् च न। हेतुमद् उपाय-वैलक्षण्यम्। तत्र कर्त्र्-आधारयोर् भिन्न-लक्षणत्वाद् अ-हेतुमत्-कार्य-वैलक्षण्यम् अन्याय्यं स्यात्। आकृतेर् अ-भेदाद् इति। ॥२।१।२७॥
तत्रैतत् स्यात्। संहत्य कारकैर् एको ऽर्थो ऽभिनिर्वर्त्यते। पृथक् पृथक् स्वार्थ-साधकौ पुनर् इमौ तद् अ-युक्तम् इति। ॥२।१।२८॥
तच् च न। युगपद् अन्-एकार्थ-सिद्धिर् अपि दृश्यते। यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति। न तत्र कारक-भेद इति चेद् इहापि न वस्तु-भेद इति। उपाय-वैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्। तेनोभयोर् अपि सदृशी सुख-प्रतिपत्तिर् इति। ॥२।१।२९॥
जातेर् अ-भेदाद् दम्पत्योः स-दृशम् सुखम् इष्यते। तस्मात् तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद् रतिम्॥।२।१।३१ स-दृशत्वस्य सिद्धत्वात् काल-योगीन्य् अपि भावतो ऽपि कालतः प्रमाणवद् एव नव रतानि। ॥२।१।३०व्॥
रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रति-पर्यायाः। सम्प्रयोगो रतं रहः शयनं मोहनं सुरत-पर्यायाः। ॥२।१।३२॥
प्रमाण-काल-भाव-जानां सम्प्रयोगानाम् एकैकस्य नव-विधत्वात् तेषां व्यतिकरे सुरत-सङ्ख्या न शक्यते कर्तुम्। अति-बहुत्वात्। ॥२।१।३३॥
तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः। ॥२।१।३४॥
प्रथम-रते चण्ड-वेगता शीघ्र-कालता च पुरुषस्य तद्-विपरीतम् उत्तरेषु। योषितः पुनर् एतद् एव विपरीतम्। आ धातु-क्षयात्। ॥२।१।३५॥
प्राक् च स्त्री-धातु-क्षयात् पुरुष-धातु-क्षय इति प्रायोवादः। ॥२।१।३६॥
मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चैव योषितः। प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः॥ ॥२।१।३७व्॥
एतावद् एव युक्तानां व्याख्यातं साम्प्रयोगिकम्। मन्दानाम् अवबोधार्थं विस्तरो ऽतः प्रवक्ष्यते((७))। ॥२।१।३८व्॥