कामश् चतुर्षु वर्णेषु स-वर्णतः शास्त्रतश् चानन्य-पूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति। ॥१।५।१॥
तद्-विपरीत उत्तम-वर्नासु परपरिगृहीतासु च। प्रतिषिद्धो ऽवर-वर्णास्व् अ-निरवसितासु। वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः। सुखार्थत्वात्। ॥१।५।२॥
तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च। इति। ॥१।५।३॥
अन्य-कारण-वशात् पर-परिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः। ॥१।५।४॥
स यदा मन्यते स्वैरिणीयम्॥१।५।६ अन्यतो ऽपि बहुशो व्यवसित-चारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तम-वर्णिन्याम् अपि न धर्म-पीडां करिष्यति पुनर्भूर् इयम्। ॥१।५।५॥
अन्यपूर्वावरुद्धा नात्र शङ्कास्ति। ॥१।५।७॥
पतिं वा महान्तम् ईश्वरम् अस्मद्-अ-मित्र-संसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति। सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति। ॥१।५।८॥
वि-रसं वा मयि शक्तम् अपकर्तु-कामं च प्रकृतिम् आपादयिष्यति। ॥१।५।९॥
तया वा मित्री-कृतेन मित्र-कार्यम् अ-मित्र-प्रतीघातम् अन्यद् वा दुष्-प्रतिपादकं कार्यं साधयिष्यामि। ॥१।५।१०॥
संसृष्टो वानया हत्वास्याः पतिम् अस्मद्-भाव्यं तद्-ऐश्वर्यम् एवम् अधिगमिष्यामि। ॥१।५।११॥
निर्-अत्ययं वास्या गमनम् अर्थानुबद्धम्। अहं च निः-सारत्वात् क्षीण-वृत्त्य्-उपायः। सो ऽहम् अनेनोपायेन तद्-धनम् अतिमहद् अ-कृच्छ्राद् अधिगमिष्यामि। ॥१।५।१२॥
मर्म-ज्ञा वा मयि दृढम् अभिकामा सा माम् अन्-इच्छन्तं दोष-विख्यापनेन दूषयिष्यति। ॥१।५।१३॥
अ-सद्-भूतं वा दोषं श्रद्धेयं दुष्-परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्। ॥१।५।१४॥
आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः सङ्ग्राहयिष्यति। ॥१।५।१५॥
स्वयं वा तैः सह संसृज्येत। मद्-अवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि। ॥१।५।१६॥
राज-नियोगाच् चान्तर्-वर्तिनं शत्रुं वास्य निर्हनिष्यामि। ॥१।५।१७॥
याम् अन्यां कामयिष्ये सास्या वशगा। ताम् अनेन सङ्क्रमेणाधिगमिष्यामि। ॥१।५।१८॥
कन्याम् अ-लभ्यां वात्माधीनाम् अर्थ-रूपवतीं मयि सङ्क्रामयिष्यति। ॥१।५।१९॥
ममा-मित्रो वास्याः पत्या सहैकी-भावम् उपगतस् तम् अनया रसेन योजयिष्यामीत्य् एवम्-आदिभिः कारणैः पर-स्त्रियम् अपि प्रकुर्वीत। ॥१।५।२०॥
इति साहसिक्यं न केवलं रागाद् एव। ॥१।५।२१॥
इति पर-परिग्रह-गमण-कारणानि। ॥१।५।२१च्॥
एतैर् एव कारणैर् महा-मात्र-सम्बद्धा राज-सम्बद्धा वा तत्रैक-देश-चारिणी का चिद् अन्या वा कार्य-सम्पादिनी विधवा पञ्चमीति चारायणः। ॥१।५।२२॥
सैव प्रव्रजिता षष्ठीति सुवर्णनाभः। ॥१।५।२३॥
गणिकाया दुहिता परिचारिका वानन्य-पूर्वा सप्तमीति घोटकमुखः। ॥१।५।२४॥
उत्क्रान्त-बाल-भावा कुल-युवतिर् उपचारान्यत्वाद् अष्टमीति गोनर्दीयः। ॥१।५।२५॥
कार्यान्तरा-भावाद् एतासाम् अपि पूर्वास्व् एवोपलक्षणम् तस्माच् चतस्र एव नायिका इति वात्स्यायनः। ॥१।५।२६॥
भिन्नत्वात् तृतीय-प्रकृतिः पञ्चमीत्य् एके। ॥१।५।२७॥
एक एव तु सार्वलौकिको नायकः। प्रच्छन्नस् तु द्वितीयः। विशेषालाभात्। उत्तमाधम-मध्यमतां तु गुण-गुणतो विद्यात्। तांस् तूभयोर् अपि गुणा-गुणान् वैशिके वक्ष्यामः। ॥१।५।२८॥
अ-गम्यास् त्व् एवैताः कुष्ठिन्य् उन्मत्ता पतिता भिन्न-रहस्या प्रकाश-प्रार्थिनी गत-प्राय- यौवनातिश्वेतातिकृष्णा दुर्-गन्धा सम्बन्धिनी सखी प्रव्रजिता सम्बन्धि-सखि-श्रोत्रिय- राज-दाराश् च। ॥१।५।२९॥
दृष्ट-पञ्च-पुरुषा ना-गम्या का चिद् अस्तीति बाभ्रवीयाः। ॥१।५।३०॥
सम्बन्धि-सखि-श्रोत्रिय-राज-दार-वर्जम् इति गोणिकापुत्रः। ॥१।५।३१॥
सह-पांसु-क्रीडितम् उपकार-सम्बद्धं समान-शील-व्यसनं सहाध्यायिनं यश् चास्य मर्मणि रहस्यानि च विद्यात् यस्य चायं विद्याद् वा धात्र्-अपत्यं सह-संवृद्धं मित्रम्। ॥१।५।३२॥
पितृ-पैतामहम् अ-विसंवादकम् अ-दृष्ट-वैकृतं वश्यं ध्रुवम् अ-लोभ-शीलम् अ-परिहार्यम् अ-मन्त्र-विस्रावीति मित्र-सम्पत्। ॥१।५।३३॥
रजक-नापित-मालाकार-गान्धिक-सौरिक-भिक्षुक-गोपालक-ताम्बूलिक-सौवर्णिक-पीठमर्द- विट-विदूषकादयो मित्राणि। तद्-योषिन् मित्राश् च नागरकाः स्युर् इति वात्स्यायनः। ॥१।५।३४॥
यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सु-विस्रब्धं तत्र दूत-कर्म। ॥१।५।३५॥
पटुता धाष्ट्र्यम् इङ्गिताकार-ज्ञता प्रतारण-काल-ज्ञता विषह्य-बुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च ॥१।५।३६॥
इति दूत-गुणाः। ॥१।५।३६च्॥
भवति चात्र श्लोकः। ॥१।५।३७॥
आत्मवान् मित्रवान् युक्तो भावज्ञो देश-काल-वित्। अ-लभ्याम् अप्य् अ-यत्नेन स्त्रियं संसाधयेन् नरः॥ ॥१।५।३७व्॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नायक-सहाय-दूती-कर्म-विमर्शः पञ्चमो ऽध्यायः॥ ॥१।५च्॥