गृहीत-विद्यः प्रतिग्रह-जय-क्रय-निर्वेशाधिगतैर् अर्थैर् अन्वयागतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरक-वृत्तं वर्तेत। ॥१।४।१॥
नगरे पत्तने खर्वटे महति वा सज्-जनाश्रये स्थानम्। यात्रा-वशाद् वा। ॥१।४।२॥
तत्र भवनम् आसन्नोदकं वृक्ष-वाटिकवद् विभक्त-कर्म-कक्षं द्वि-वास-गृहं कारयेत्। ॥१।४।३॥
बाह्ये च वास-गृहे सु-श्लक्ष्णम् उभयोपधानं मध्ये विनतं शुक्लोत्तर-च्छदं शयनीयं स्यात्। प्रतिशय्यिका च। तस्य शिरो-भागे कूर्च-स्थानं वेदिका च। तत्र रात्रि-शेषम् अनुलेपनं माल्यं सिक्थ-करण्डकं सौगन्धिक-पुटिका मातुलुङ्ग-त्वचस् ताम्बूलानि च स्युः। भूमौ पतद्ग्रहः। नाग-दन्तावसक्ता वीणा। चित्र-फलकम्। वर्तिकासमुद्गकः। यः कश् चित् पुस्तकः। कुरण्टक-मालाश् च। नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्। आकर्ष-फलकं द्यूत-फलकं च। तस्य बहिः क्रीडा-शकुनि- पञ्जराणि। एकान्ते च तक्ष-तक्षञ-स्थानम् अन्यासां च क्रीडानाम्। स्व्-आस्तीर्णा प्रेङ्खदोला वृक्ष-वाटिकायां स-प्रच्छाया। स्थण्डिल-पीठिका च स-कुसुमेति भवन-न्यासः। ॥१।४।४॥
स प्रातर् उत्थाय कृत-नियत-कृत्यः गृहीत-दन्त-धावनः मात्रयानुलेपनं धूपं स्रजम् इति च गृहीत्वा दत्त्वा सिक्थकम् अलक्तकं च दृष्ट्वादर्शे मुख्म् गृहीत-मुख-वास- ताम्बूलः कार्याण्य् अनुतिष्ठेत्। ॥१।४।५॥
नित्यं स्नानम्। द्वितीयकम् उत्सादनम्। तृतीयकः फेनकः। चतुर्थकम् आयुष्यम्। पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अ-हीनम्। सातत्याच् च संवृत-कक्षास्वेदापनोदः। ॥१।४।६॥
पूर्वाह्णापराह्णयोर् भोजनम्। सायं चारायणस्य। ॥१।४।७॥
भोजनानतरं शुक-सारिका-प्रलापन-व्यापाराः। लावक-कुक्कुट-मेष-युद्धानि तास् ताश् च कला-क्रीडाः। पीठमर्द-विट-विदूषकायत्ता व्यापाराः। दिवा-शय्या च। ॥१।४।८॥
गृहीत-प्रसाधनस्यापराह्णे गोष्ठी-विहाराः। ॥१।४।९॥
प्रदोषे च सङ्गीतकानि। तद्-अन्ते च प्रसाधिते वास-गृहे सञ्चारित-सुरभि-धूपे स-सहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्। ॥१।४।१०॥
दूतीनां प्रेषणम् स्वयं वा गमनम्। ॥१।४।११॥
आगतानां च मनोहरैर् आलापैर् उपचारैश् च स-सहायस्योपक्रमाः॥१।४।१३ वर्ष-प्रमृष्ट-नेपथ्यानां दुर्-दिनाभिसारिकाणाम् स्वयम् एव पुनर्-मण्डनम् मित्र-जनेन वा परिचरणम् इत्य् आहोरात्रिकम्। ॥१।४।१२॥
घटा-निबन्धनम् गोष्ठी-समवायः समापानकम् उद्यान-गमनम् समस्याः क्रीडाश् च प्रवर्तयेत्। ॥१।४।१४॥
पक्षस्य मासस्य वा प्रज्ञाते ऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः। ॥१।४।१५॥
कुशीलवाश् चागन्तवः प्रेक्षणकम् एषां दद्युः। द्वितीये ऽहनि तेभ्यः पूजा नियतं लभेरन्। ततो यथा-श्रद्धम् एषां दर्शनम् उत्सर्गो वा। व्यसनोत्सवेषु चैषां पर्स्परस्यैक-कार्यता। ॥१।४।१६॥
आगन्तूनां च कृत-समवायानां पूजनम् अभ्युपत्तिश् च। ॥१।४।१७॥
इत्य् गण-धर्मः। ॥१।४।१७च्॥
एतेन तं तं देवता-विशेषम् उद्दिश्य सम्भावित-स्थितयो घटा व्याख्याताः। ॥१।४।१८॥
वेश्या-भवने सभायाम् अन्यतमस्योद्वसिते वा समान-विद्या-बुद्धि-शील-वित्त-वयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसन-बन्धो गोष्ठी। ॥१।४।१९॥
तत्र चैशां काव्य-समस्या कला-समस्या वा। ॥१।४।२०॥
तस्याम् उज्ज्वला लोक-कान्ताः पूज्याः। प्रीति-समानाश् चाहारितः। ॥१।४।२१॥
परस्पर-भवनेषु चापानकानि। ॥१।४।२२॥
तत्र मधु-मैरेय-सुरान् विविध-लवण-फल-हरित-शाक-तिक्त-कटुकाम्लोपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च। ॥१।४।२३॥
एतेनोद्यान-गमनं व्याख्यातम्। ॥१।४।२४॥
पूर्वाह्ण एव स्व्-अलङ्कृतास् तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः। दैवसिकीं च यात्रां तत्रानुभूय कुक्कुट-युद्ध-द्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीत-तद्-उपभोग-चिह्नास् तथैव प्रत्याव्रजेयुः। ॥१।४।२५॥
एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जल-क्रीडा-गमनं व्याख्यातम्। ॥१।४।२६॥
यक्ष-रात्रिः। कौमुदी-जागरः। सु-वसन्तकः। ॥१।४।२७॥
सह-कार-भञ्जिका, अभ्यूषखादिका बिसखादिका नव-पत्त्रिका उदक-क्ष्वेडिका पाञ्चालानुयानम् एकशाल्मली कदम्ब-युद्धानि तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः। इति सम्भूय-क्रीडाः। ॥१।४।२८॥
एकचारिणश् च विभव-सामर्थ्यात्। ॥१।४।२९॥
गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्। ॥१।४।३०॥
अ-विभवस् तु शरीर-मात्रो मल्लिका-फेनक-कषाय-मात्र-परिच्छदः पूज्याद् देशाद् आगतः कलासु विचक्षणस् तद्-उपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेद् आत्मानम् इति पीठ-मर्दः। ॥१।४।३१॥
भुक्त-विभवस् तु गुणवान् स-कलत्रो वेशे गोष्ठ्यां च बहु-मतस् तद्-उपजीवी च विटः। ॥१।४।३२॥
एक-देश-विद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः। वैहासिको वा। ॥१।४।३३॥
एते वेश्यानां नागरकाणां च मन्त्रिणः सन्धि-विग्रह-नियुक्ताः। ॥१।४।३४॥
तैर् भिक्षुक्यः कला-विदग्धा मुण्डा वृषल्यो वृद्ध-गणिकाश् च व्याख्याताः। ॥१।४।३५॥
ग्राम-वासी च स-जातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरक-जनस्य वृत्तं वर्णयञ् श्रधांश् च जनयंस् तद् एवानुकुर्वीत। गोष्ठीश् च प्रवर्तयेत्। सङ्गत्या जनम् अनुरञ्जयेत्। कर्मसु च साहाय्येन चानुगृह्णीयात्। उपकारयेच् च। ॥१।४।३६॥
इति नागरक-वृत्तम्। ॥१।४।३६च्॥
नात्यन्तं संस्कृतेनैव नात्यन्तं देश-भाषया। कथां गोष्ठीषु कथयंल् लोके बहु-मतो भवेत्॥ ॥१।४।३७व्॥
या गोष्ठी लोक-विद्विष्टा या च स्वैर-विसर्पिणी। पर-हिंसात्मिका या च न ताम् अवतरेद् बुधः॥ ॥१।४।३८व्॥
लोक-चित्तानुवर्तिन्या क्रीडा-मात्रैक-कार्यया। गोष्ठ्या सह-चरन् विद्वांल् लोके सिद्धिं नियच्छति॥ ॥१।४।३९व्॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नागरक-वृत्तं चतुर्थो ऽध्यायः। ॥१।४च्॥