धर्मार्थाङ्गविद्या-कालान् अन्-उपरोधयन् काम-सूत्रं तद्-अङ्ग-विद्याश् च पुरुषो ऽधीयीत। ॥१।३।१॥
प्राग् यौवनात् स्त्री। प्रत्ता च पत्युर् अभिप्रायात्। ॥१।३।२॥
योषितां शास्त्र-ग्रहणस्याभावाद् अनर्थकम् इह शास्त्रे स्त्री-शासनम् इत्य् आचार्याः। ॥१।३।३॥
प्रयोग-ग्रहणं त्व् आसाम्। प्रयोगस्य च शास्त्र-पूर्वकत्वाद् इति वात्स्यायनः। ॥१।३।४॥
तन् न केवलम् इहैव। सर्वत्र हि लोके कति चिद् एव शास्त्र-ज्ञाः। सर्व-जन-विषयश् च प्रयोगः। ॥१।३।५॥
प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः। ॥१।३।६॥
अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते। ॥१।३।७॥
अस्ति ज्यौतिषम् इति पुण्याहेषु कर्म कुर्वते। ॥१।३।८॥
तथाश्वारोहा गजारोहाश् चाश्वान् गजांश् चानधिगत-शास्त्रा अपि विनयन्ते। ॥१।३।९॥
तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्। ॥१।३।१०॥
सन्त्य् अपि खलु शास्त्र-प्रहत-बुद्धयो गणिका राज-पुत्र्यो महामात्र-दुहितरश् च। ॥१।३।११॥
तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्। ॥१।३।१२॥
अभ्यास-प्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्। ॥१।३।१३॥
आचार्यास् तु कन्यानां प्रवृत्त-पुरुष-सम्प्रयोगा सह-सम्प्रवृद्धा धात्रेयिका। तथा-भूता वा निर्-अत्यय-सम्भाषणा सखी। सवयाश् च मातृ-श्वसा। विस्रब्धा तत्-स्थानीया वृद्ध-दासी। पूर्व-संसृष्टा वा भिक्षुकी। स्वसा च विश्वास-प्रयोगात्। ॥१।३।१४॥
गीतम् (१), वाद्यम् (२), नृत्यम् (३), आलेख्यम् (४), विशेषकच्छेद्यम् (५), तण्डुल-कुसुम-वलि- विकाराः (६), पुष्पास्तरणम् (७), दशन-वसनागरागः (८), मणि-भूमिका-कर्म (९), शयन-रचनम् (१०), उदक-वाद्यम् (११), उदकाघातः (), चित्राश् च योगाः (१३), माल्य-ग्रथन- विकल्पाः (१४), शेखरकापीड-योजनम् (१५), नेपथ्य-प्रयोगाः (१६), कर्ण-पत्त्र- भङ्गाः (१७), गन्ध-युक्तिः (१८), भूषण-योजनम् (१९), ऐन्द्रजालाः (२०), कौचुमाराश् च (२१), हस्त-लाघवम् (२२), विचित्र-शाक-यूष-भक्ष्य-विकार-क्रिया (२३),।पानकरसरागासव-योजनम् (२४), सूचीवान-कर्माणि (२५), सूत्रक्रीडा (२६), वीणा-डमरुक-वाद्यानि (२७), प्रहेलिका (२८), प्रतिमाला (२९), दुर्वाचक-योगाः (३०), पुस्तक-वाचनम् (३१), नाटकाख्यायिका-दर्शनम् (३२), काव्य-समस्यापूरणम् (३३), पट्टिकावान-वेत्र-विकल्पाः (३४),तक्ष-कर्माणि (३५), तक्षणम् (३६), वास्तु-विद्या (३७), रूप्य-परीक्षा (३८), धातु-वादः (३९), मणि-रागाकर-ज्ञानम् (४०), वृक्षायुर्वेद-योगाः (४१), मेष-कुक्कुट-लावक-युद्ध-विधिः (४२), शुक-सारिका-प्रलापनम् (४३), उत्सादने संवाहने केशमर्दने च कौशलम् (४४),अक्षर-मुष्तिकाकथनम् (४५), म्लेच्छित-विकल्पाः (४६), देश-भाषा-विज्ञानम् (४७), पुष्प-शकटिका (४८), निमित्त-ज्ञानम् (४९), यन्त्र-मातृका (५०), धारण-मातृका (५१), सम्पाठ्यम् (५२), मानसी काव्य-क्रिया (५३), अभिधानकोशः (५४), छन्दो-ज्ञानम् (५५), क्रिया-कल्पः (५६), छलितक-योगाः (५७), वस्त्रगोपनानि (५८), द्यूत-विशेषः (५९), आकर्ष-क्रीडा (६०), बाल-क्रीडनकानि (६१), वैनयिकीनाम् (६२), वैजयिकीनाम् (६३), व्यायामिकीनां च (६४) विद्यानां ज्ञानम् इति चतुः-षष्टिर् अङ्ग-विद्या। कामसूत्रावयविन्यः। ॥१।३।१५॥
पाञ्चालिकी च चतुःषष्टिर् अपरा। तस्याः प्रयोगान् अन्ववेत्य साम्प्रयोगिके वक्ष्यामः। कामस्य तद्-आत्मकत्वात्। ॥१।३।१६॥
आभिर् अभ्युच्छ्रिता वेश्या शील-रूप-गुणान्विता। लभते गणिका-शब्दं स्थानं च जन-संसदि॥ ॥१।३।१७व्॥
पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता। प्रार्थनीयाभिगम्या च लक्ष्य-भूता च जायते॥ ॥१।३।१८व्॥
योग-ज्ञा राज-पुत्री च महामात्र-सुता तथा। सहस्रान्तः-पुरम् अपि स्व-वशे कुरुते पतिम्॥ ॥१।३।१९व्॥
तथा पति-वियोगे च व्यसनं दारुणं गता। देशान्तरे ऽपि विद्याभिः सा सुखेनैव जीवति॥ ॥१।३।२०व्॥
नरः कलासु कुशलो वाचालश् चाटु-कारकः। अ-संस्तुतो ऽपि नारीणां चित्तम् आश्व् एव विन्दति॥ ॥१।३।२१व्॥
कलानां ग्रहणाद् एव सौभाग्यम् उपजायते। देश-कालौ त्व् अपेक्ष्यासां प्रयोगः सम्भवेन् न वा॥ ॥१।३।२२व्॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे विद्या-समुद्देशः तृतीयो ऽध्यायः। ॥१।३च्॥