त्रिवर्ग-प्रतिपत्तिः
शतायुर् वै पुरुषो विभज्य कालम्, अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत।+++(5)+++ ॥१।२।१॥
बाल्ये विद्या-ग्रहणादीन् अर्थान्। ॥१।२।२॥
कामं च यौवने। ॥१।२।३॥
स्थाविरे धर्मं मोक्षं च। ॥१।२।४॥
अ-नित्यत्वाद् आयुषो यथोपपादं वा सेवेत।+++(5)+++ ॥१।२।५॥
ब्रह्मचर्यम् एव त्व् आ विद्या-ग्रहणात्। ॥१।२।६॥
अवबोधः
अ-लौकिकत्वाद् अ-दृष्टार्थत्वाद् अ-प्रवृत्तानां अज्ञादीनां शास्त्रात् प्रवर्तनम्, लौकि[क]त्वाद् दृष्टार्थत्वाच् च प्रवृत्तेभ्यश् च मांस-भक्षणादिभ्यः शास्त्राद् एव निवारणं धर्मः।+++(5)+++ ॥१।२।७॥
तं श्रुतेर् धर्मज्ञ-समवायाच् च प्रतिपद्येत। ॥१।२।८॥
विद्या-भूमि-हिरण्य-पशु-धान्य-भाण्डोपस्कर-मित्रादीनाम् अर्जनम्, अर्जितस्य विवर्धनम् अर्थः।+++(5)+++ ॥१।२।९॥
तम् अध्यक्ष-प्रचाराद् वार्ता-समय-विद्भ्यो वणिग्भ्यश् चेति।+++(4)+++ ॥१।२।१०॥
श्रोत्र-त्वक्-चक्सुर्-जिह्वा-घ्राणानाम् आत्म-संयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः।+++(5)+++ ॥१।२।११॥
स्पर्श-विशेष-विषयात् त्व् अस्याभिमानिक-सुखानुविद्धा फलवत्य् अर्थ-प्रतीतिः प्राधान्यात् कामः। ॥१।२।१२॥
तं काम-सूत्रान् नागरिक-जन-समवायाच् च प्रतिपद्येत। ॥१।२।१३॥
एषां समवाये पूर्वः पूर्वो गरीयान्।+++(5)+++ ॥१।२।१४॥
अर्थश् च राज्ञः - तन्-मूलत्वाल् लोक-यात्रायाः। वेश्यायाश् च - इति त्रिवर्ग-प्रतिपत्तिः((४))। ॥१।२।१५॥
सम्प्रतिपत्तिः / शास्त्र-प्रयोजनम्
धर्मस्यालौकिकत्वात् तद्-अभिदायकं शास्त्रं युक्तम्। उपाय-पूर्वकत्वाद् अर्थ-सिद्धेः। उपाय-प्रतिपत्तिः शास्त्रात्। ॥१।२।१६॥
तिर्यग्-योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तीत्य् आचार्याः। ॥१।२।१७॥
सम्प्रयोग-पराधीनत्वात् स्त्री-पुंसयोर् उपायम् अपेक्षते। ॥१।२।१८॥
सा चोपाय-प्रतिपत्तिः काम-सूत्राद् इति वात्स्यायनः। ॥१।२।१९॥
तिर्यग्-योनिषु पुनर् अन्-आवृतत्वात्, श्त्री-जातेश् च ऋतौ यावद्-अर्थं प्रवृत्तेर् अ-बुद्धि-पूर्वकत्वाच् च प्रवृत्तीनाम् अन्-उपायः प्रत्ययः। ॥१।२।२०॥
न धर्मांश् चरेत्। एष्यत्-फलत्वात्। संशयिकत्वाच् च। ॥१।२।२१॥
को ह्य् अ-बालिशो हस्त-गतं पर-गतं कुर्यात्। ॥१।२।२२॥
वरम् अद्य कपोतः श्वो मयूरात्। ॥१।२।२३॥
वरं सांशयिकान् निष्काद् अ-सांशयिकः कार्षापणः। इति लौकायतिकाः॥१।२।२५॥
शास्त्रस्यानभिशङ्कत्वाद्, अभिचारानुव्याहारयोश् च, क्व चित् फल-दर्शनान् नक्षत्र-चन्द्र-सूर्य-तारा-ग्रह-चक्रस्य लोकार्थं बुद्धि-पूर्वकम् इव प्रवृत्तेर् दर्शनाद्, वर्णाश्रमाचार-स्थिति-लक्षणत्वाच् च, लोकयात्राया हस्त-गतस्य च बीजस्य भविष्यतः सस्यार्थे त्याग-दर्शनाच् चरेद् धर्मान् इति वात्स्यायनः। +++(5)+++ ॥१।२।२४॥
नार्थांश् चरेत्। प्रयत्नतो ऽपि ह्य् एते ऽनुष्ठीयमाना नैव कदा चित् स्युः अननुष्ठीयमाना अपि यदृच्छया भवेयुः। ॥१।२।२६॥
तत् सर्वं काल-कारितम् इति। ॥१।२।२७॥
काल एव हि पुरुषान् अर्थानर्थयोर् जय-पराजययोः सुख-दुःखयोश् च स्थापयति। ॥१।२।२८॥
कालेन बलिर् इन्द्रः कृतः। कालेन व्यपरोपितः। काल एव पुनर् अप्य् एनं कर्तेति कालकारणिकाः। ॥१।२।२९॥
पुरुष-कार-पूर्वकत्वात् सर्व-प्रवृत्तीनाम् उपायः प्रत्ययः। ॥१।२।३०॥
अ-वश्यं-भाविनो ऽप्य् अर्थस्योपाय-पूर्वकत्वाद् एव। न निष्कर्मणो भद्रम् अस्तीति वात्स्यायनः। ॥१।२।३१॥
न कामांश् चरेत्। धर्मार्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्। अनर्थजन-संसर्गम् असद्-व्यवसायम् अशौचम् अन्-आयतिं चैते पुरुषस्य जनयन्ति। ॥१।२।३२॥
तथा प्रमादं लाघवम् अ-प्रत्ययम् अ-ग्राह्यतां च। ॥१।२।३३॥
बहवश् च काम-वश-गाः स-गणा एव विनष्टाः श्रूयन्ते। ॥१।२।३४॥
यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण-कन्याम् अभिमन्यमानः स-बन्धु-राष्ट्रो विननाश((५))। ॥१।२।३५॥
देवराजश् चाहल्याम् अति-बलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चान्ये च बहवो दृश्यन्ते काम-वश-गा विनष्टा इत्य् अर्थचिन्तकाः। ॥१।२।३६॥
शरीर-स्थिति-हेतुत्वाद् आहार-स-धर्माणो हि कामाः। फल-भूताश् च धर्मार्थयोः। ॥१।२।३७॥
बोद्धव्यं तु दोषेष्व् इव। न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः। ॥१।२।३८॥
भवन्ति चात्र श्लोकाः ॥१।२।३९॥
एवम् अर्थं च कामं च धर्मं चोपाचरन् नरः। इहामुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते॥ ॥१।२।३९व्॥
किं स्यात् परत्रेत्य् आशङ्का कार्ये यस्मिन् न जायते। न चार्थ-घ्नं सुखं चेति शिष्टास् तत्र व्यवस्थिताः॥ ॥१।२।४०व्१॥
त्रिवर्ग-साधकं यत् स्याद् द्वयोर् एकस्य वा पुनः। कार्यं तद् अपि कुर्वीत न त्व् एकार्थं द्वि-बाधकम्॥ ॥१।२।४०व्२॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे त्रिवर्ग-प्रतिपत्तिर् द्वितीयो ऽध्यायः।((६)) ॥१।२च्॥