मङ्गलम्
धर्मार्थ-कामेभ्यो नमः। ॥१।१।१॥
शास्त्रे प्रकृतत्वात्((१))। ॥१।१।२॥
तत्समयावबोधकेभ्यश् च आचार्येभ्यः। इति। ॥१।१।३॥
तत्-सम्बन्धात्। इति। ॥१।१।४॥
शास्त्रोद्भवः
प्रजापतिर् हि प्रजाः सृष्ट्वा तासां स्थिति-निबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणाग्रे प्रोवाच। ॥१।१।५॥
तस्यैकदेशिकं मनुः स्वायम्भुवो धर्माधिकारिकं पृथक् चकार। ॥१।१।६॥
बृहस्पतिर् अर्थाधिकारिकम्। ॥१।१।७॥
महादेवानुचरश् च नन्दी सहस्रेणाध्यायानां पृथक् काम-सूत्रं प्रोवाच। ॥१।१।८॥
तद् एव तु पञ्चभिर् अध्याय-शतैर् औद्दालिकिः श्वेतकेतुः सञ्चिक्षेप। ॥१।१।९॥
तद् एव तु पुनर् अध्य्-अर्धेनाध्याय-शतेन [१]साधारण-[२]साम्प्रयोगिक-[३]कन्या-सम्प्रयुक्तक-[ ४]भार्याधिकारिक-[५]पारदारिक-[६]वैशिक-[७]औपनिषदिकैः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः सञ्चिक्षेप। ॥१।१।१०॥
तस्य षष्टं वैशिकम् अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार। ॥१।१।११॥
तत्-प्रसङ्गाच् चारायणः साधारणम् अधिकरणं प्रोवाच। सुवर्णनाभः साम्प्रयोगिकम्। घोटकमुखः कन्या-सम्प्रयुक्तकम्। गोनर्दीयो भार्याधिकारिकम्। गोणिकापुत्रः पारदारिकम्। कुचुमार औपनिषदिकम् इति। ॥१।१।१२॥
एवं बहुभिर् आचार्यैस् तच् छास्त्रं खण्डशः प्रणीतम् उत्सन्न-कल्पम् अभूत्। ॥१।१।१३॥
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानाम् एकदेशत्वात् महद् इति च बाभ्रवीयस्य दुर्-आध्येयत्वात् सङ्क्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्। ॥१।१।१४॥
भागाः
तस्यायं प्रकरणाधिकरण-समुद्देशः ॥१।१।१५॥
शास्त्र-सङ्ग्रहः। त्रिवर्ग-प्रतिपत्तिः। विद्यासमुद्देशः। नागरक-वृत्तम्। नायक-सहाय-दूती-कर्मविमर्शः। इति साधारणं प्रथमाधिकरणम् अध्यायः पञ्च प्रकरणानि पञ्च। ॥१।१।१६॥
प्रमाण-कालाभावेभ्यो रतावस्थापनम्, प्रीति-विशेषाः, आलिङ्गन-विचाराः, चुम्बन-विकल्पाः, नख-रदन-जातयः, दशन-च्छेद्य-विधयः, देश्या उपचाराः, संवेशन-प्रकाराः चित्र-रतानि, प्रहण-योगः, तद्-युक्ताश् च, सीत्कृतोपक्रमाः, पुरुषायितम्, पुरुषोपसृप्तानि, औपरिष्टकम्, रतारम्भावसानिकम्, रत-विशेषाः, प्रणय-कलहः - इति साम्प्रयोगिकं द्वितीयम् अधिकरणम्। अध्यया दश। प्रकरणानि सप्तदश। ॥१।१।१७॥
वरण-विधानम्, सम्बन्ध-निर्णयः, कन्या-विस्रम्भणम्, बालायाः उपक्रमाः, इङ्गिताकार-सूचनम्, एक-पुरुषाभियोगः, प्रयोज्यस्योपावर्तणम्, अभियोगतश् च कन्यायाः प्रतिपत्तिः, विवाह-योगः इति कन्या-सम्प्रयुक्तकं तृतीयाधिकरणम्। अध्यायाः पञ्च। प्रकरणानि नव ॥१।१।१८॥
एकचारिणी-वृत्तम्, प्रवास-चार्या, सपत्नीषु ज्येष्ठा-वृत्तम्, कनिष्ठा-वृत्तम्, पुनर्भू-वृत्तम्, दुर्भगा-वृत्तम्, आन्तःपुरिकम्, पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थम् अधिकरणम्। अध्यायौ द्वौ। प्रकरणान्य् अष्टौ ॥१।१।१९॥
स्त्री-पुरुष-शीलावस्थापनम्, व्यावर्त्तन-कारणानि, स्त्रीषु सिद्धाः पुरुषाः, अ-यत्न-साध्या योषितः, परिचय-कारणानि, अभियोगाः, भाव-परीक्षा, दूती-कर्माणि, ईश्वरकामितम्, अन्तःपुरिकं, दार-रक्षितकम् इति पारदारिकं पञ्चमम् अधिकरणम्। अध्यायाः षट्। प्रकरणानि दश ((२)) ॥१।१।२०॥
गम्य-चिन्ता, गमन-कारणानि, उपावर्तन-विधिः, कान्तानुवर्तनम्, अर्थागमोपायाः, विरक्त-लिङ्गानि, विरक्त-प्रतिपत्तिः, निष्कासन-प्रकाराः, विशीर्ण-प्रतिसन्धानम्, लाभविशेषः, अर्थानर्थानुबन्ध-संशय-विचारः, वेश्या-विशेषाश् च इति वैशिकं षष्टम् अधिकरणम्। अध्यायः षट्। प्रकरणानि द्वादश। ॥१।१।२१॥
सुभगं-करणम्, वशी-करणम्, वृष्याश् च योगाः, नष्ट-राग-प्रत्यानयनम्, वृद्धि-विधयः, चित्राश् च योगाः इत्य् औपनिषदिकं सप्तमम् अधिकरणम्। अध्यायौ द्वौ। प्रकरणानि षट्। ॥१।१।२२॥
एवं षट्त्रिंशद् अध्यायाः। चतुःषष्टिः प्रकरणानि((३)) अधिकरणानि। सप्त स-पादं श्लोक-सहस्रम् - इति शास्त्रस्य सङ्ग्रहः। ॥१।१।२३॥
सङ्क्षेपम् इमम् उक्त्वास्य
विस्तारो ऽतः प्रवक्ष्यते।
इष्टं हि विदुषां लोके
समास-व्यास-भाषणम्॥ ॥१।१।२४व्॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे शास्त्र-सङ्ग्रहः प्रहमो ऽध्यायः। ॥१।१च्॥