Source: TW
विस्तारः (द्रष्टुं नोद्यम्)
Mahāmahopādhyāya Pt. Śivadatta in his edition (year 1908) of Nirṇayasindhu (pg. 235), puts a footnote to discuss that for a Dvija woman, her husband being her Guru, he should teach her the Veda of his own śākhā.
‘वैवाहिको विधिः स्त्रीणाम् औपनायनिकः परः’
इत्युक्तेर् विवाह एवोपनयन-स्थानीयः ।
अतस् तद्-दिन एव
‘पतिरेव गुरुः स्त्रीणाम्’
पतिसेवा गुरौ वासो गृहार्थे ऽग्निपारिक्रिया’ इति वचनात्
‘अहतेन वसनेन पतिः परिदध्यात्
या अकृन्तन्न् इत्य् एतयर्चा,
परिधत्त धत्त वाससेति च प्रावृत्तां
यज्ञोपवीतिनीम् अभ्युदानयन् जपेत्
‘सोमो ददद् गन्धर्वाये’ति
इति गोभिल-गृह्यतः यज्ञोपवीत-धारणं,
वसिष्ठ-स्मृताव् एकविंशेऽध्याये तत्-तत्-प्रायश्चित्तार्थं स्त्रीणाम् अपि गायत्री-जप-होम-विधानस्यान्यथानुपपत्त्या
गायत्र्य्-अङ्गीकारं पतिर् एव कारयेत् ।
पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते ।
अध्यापनं च वेदानां सावित्र्या वचनं तथा ॥
इति वचनेनापि णिज्-अर्थ-भूत-प्रयोजकत्वस्यास्मिन् कल्पे निषेधेऽपि
धात्व्-अर्थ-व्यापाराश्रयत्व-रूप-प्रयोज्यत्वस्यानिषेधात् ।
ततश्च यथावकाशं पतिर् एव स्व-शाखा-वेदं पाठयेत् ।
अत एव ‘जातेर् अस्त्रीविषयात्’– इति सूत्रभाष्ये
जाति-लक्षण-कथनावसरे कथितस्य
‘अपत्य-प्रत्ययान्तः शाखाध्येतृ-वाची च जाति-वाचकः’ इत्य्-अर्थकस्य
‘गोत्रं च चरणैः सह’ इति वार्तिकस्य
कठी बह्वृची अध्वर्युः इत्य् उदाहरणानि वेदाध्ययनम् अन्तराऽनुपपन्नानि संगच्छन्ते ।
अत एव तत्-तद्-यागेष्व् अपि यजमान-पत्न्यास् तत्-तन्-मन्त्र-पाठः ।
याज्ञे कर्मण्य् अप-शब्द-भाषणस्य निषिद्धत्वेन
संस्कृतेनैव यज्ञ-गतैर् वक्तव्यतया
तत्-तद्-उक्तेतिकर्तव्यता-ज्ञानस्य व्याकरणाध्यायनम् अन्तरा ऽनुपपन्नत्वेन
व्याकरणम् अप्य् अध्यापयेत् ।
नामधेयस्य ये केचिद्
अभिवादं न जानते ।
तान् “प्राज्ञो ऽहम्” इति ब्रूयात्
स्त्रियः सर्वास् तथैव च ।
इति मनूक्तौ संस्कृताज्ञातृत्वेनैव सिद्धौ
‘स्त्रियः सर्वाः’ इति विध्यन्तरस्यानुपपत्त्या
संस्कृतज्ञा अप्याचार्य-पत्नीर् अपि
तथैव ब्रूयाद् इति मेधातिथि-व्याख्यानम् एव वरम् ।