Access to education and scholarship

Relevant bRhadAraNyakopaniShat statements and comments are mentioned elsewhere.

rAjashekhara clearly says in Kavyamimamsa 10th chapter:

“पुरुषवद्योषितोऽपि कवीभवेयुः । संस्कारो ह्यात्मनि समवैति, न स्त्रैणं वा पौरुषं वा विभागमपेक्षते । श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ।”
Commentary: “यथा पुरुषास्तथा योषितोऽपि स्त्रियोऽपि कवीभवेयुः काव्यकर्त्र्यः स्युः । सहेतुकं विवेचयति संस्कार इति । कवित्वं संस्कारविशेषजन्यम् । संस्कारश्च आत्मनि समवैति समवायसम्बन्धेन वर्त्तते न स्रियाः शरीरे वर्त्तते । अतश्च अयं स्त्रीत्वावच्छिन्नः अयं पुरुषावच्छिन्न आत्मा इत्येवं रूपेण स्त्रिया आगतं स्त्रैणं पुरुषादागतं पौरुषं विभागं नापेक्षते । दृष्टान्तेन उपपादयति - श्रूयन्त इति । श्रूयन्ते कर्णाभ्यामिति शेषः । नहि श्रवणमात्रे सत्यता इत्यतो दार्ढ्यायोच्यते - दृश्यते चक्षुर्भ्यामिति शेषः । राज्ञां सुताः । महामात्राणाममात्यसचिवादिकानां कन्यकाः । गणिकाः वेश्याः कौतुकिनां नटानामैन्द्रजालिकानां वा भार्याः अथवा कौतिकिन्यो भार्याश्च । शास्त्रेषु प्रहताः क्षुण्णाः अथवा शास्त्रद्वारा प्रहताः सम्मार्जिता उभयथापि निर्मला इत्यर्थः बुद्धयो यासां ताः शास्त्रप्रहतबुद्धयः । अथ च कवयः कवयित्र्यः ॥
"

Comparitively higher opportunities for unmarried and married women.

वेदः

वेङ्कटनाथार्यादि-मते स्त्रीणाम् प्रणवोच्चारणे ऽप्य् अधिकारो नास्ति, दूरे वेदाध्ययनम्। द्राविडवेदाख्यानाम् प्रबन्धानां नानासंस्कृतस्तोत्राणां वेदेतरशास्त्राणां तु पठनपाठनादाव् अधिकारो ऽस्ति।

Practice

  • Vijayanagara poetess princess author of madhurAvijayam
  • vijjikA the dark skinned 7th century karNATa poetess.
  • Palaveri village surroundings in late 20th century TW