अद्वैते भक्तिः, दास्यम्

अद्वैतिष्व् अपि भक्तिः, दास्यं च दृश्यते।

त्रिक-शैवेष्व् अपि, यथोत्पलदेवः -

कथञ्चिद् आसाद्य महेश्वरस्य
दास्यं जनस्याप्य् उपकारमिच्छन्।
समस्त-सम्पत्-समवाप्ति-हेतुं
तत्-प्रत्यभिज्ञाम् उपपादयामि ॥ १ ॥

ईश्वरप्रत्यभिज्ञावृत्तावपि -

ईश्वरप्रसादादेव लब्धात्यन्तदुर्लभतद्दास्यलक्ष्मीर् …

शिवस्तोत्रावल्यामपि +उत्पलदेवः -

भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एनया वा दारिद्राणां किमन्यदुपयाचितम् ॥

शाङ्कराद्वैतिनो ऽप्पय्यदीक्षितप्रभृतयः स्वस्तोत्रैर् उपदेशैश्च भक्तिं प्रादर्शयन्।

सामञ्जस्यम्

द्वैतिषु भगवति दास्ये शरणागतौ च नास्त्य् आश्चर्यम्।
“अहम् ब्रह्मे"ति-वादिष्व् अद्वैतिष्व् आत्मन्य् एव दास्यादेर् विडम्बनाप्रसङ्गः।

सविशेषाद्वैतिनः (विशिष्टाद्वैतिनः) शरीर-शरीर-भावम् अवलम्ब्य
शरीरभूतजीव-स्वातन्त्र्यम् अवलम्ब्य पटु दास्याद्य् औचित्यं निर्वहन्ति।

शाङ्कराद्वैतिनो माया-प्रभान्वितं स-गुण-ब्रह्म-विशेषं स्वस्माद् भिन्नम् अभ्युपगम्य
तम् प्रति भक्तिम् प्रदर्शयन्तीति श्रूयते।

त्रिक-शैवेषु तादृशं नेति भाति।
“परमेश्वररूपस्वात्मविषया” इति वचनाद् आत्मानम् परमेश्वरत्वेन भावयन्तीति भाति।
तादृश-भावनामात्रेण भेदो वर्तमान एव ज्ञायते, यः कल्पनया ऽऽच्छाद्यमानः।