Source: GhorAngirasa
Settled by इन्द्र a long time ago:
यवनाः किराता गान्धाराश्
चीनाः शबर-बर्बराः।
शकास् तुषाराः कङ्काश् च
पह्लवाश् चान्ध्र-मद्रकाः ॥ १३ ॥
पौण्ड्राः पुलिन्दा रमठाः
काम्बोजाश् चैव सर्वशः।
ब्रह्मक्षत्रप्रसूताश् च
वैश्याः शूद्राश्च मानवाः ॥ १४ ॥
कथं धर्मांश् चरिष्यन्ति
सर्वे विषयवासिनः।
मद्-विधैश् च कथं स्थाप्याः
सर्वे वै दस्युजीविनः ॥ १५ ॥ …माता-पित्रोर् हि शुश्रूषा
कर्तव्या सर्व-दस्युभिः।
आचार्य-गुरु-शुश्रूषा
तथैवाश्रम-वासिनाम् ॥ १७ ॥भूमिपानां च शुश्रूषा
कर्तव्या सर्वदस्युभिः।
वेद-धर्म-क्रियाश् चैव
तेषां धर्मो विधीयते ॥ १८ ॥पितृ-यज्ञास् तथा कूपाः
प्रपाश् च शयनानि च।
दानानि च यथाकालं
द्विजेभ्यो विसृजेत् सदा ॥ १९ ॥अहिंसा सत्यम् अक्रोधो
वृत्ति-दायानुपालनम् ।
भरणं पुत्रदाराणां
शौचम् अद्रोह एव च ॥ २० ॥दक्षिणा सर्वयज्ञानां
दातव्या भूतिमिच्छता।
पाकयज्ञा महार्हाश् च
दातव्याः सर्वदस्युभिः ॥ २१ ॥एतान्य् एवं-प्रकाराणि
विहितानि पुरानघ ।
सर्व-लोकस्य कर्माणि
कर्तव्यानीह पार्थिव ॥ २२ ॥
There are 17 groups here in श्लोक-s 13 to the 1st half of 14. These 17 groups cover most or actually all foreigners if the last of the 17 names is taken generically. What are they allowed to do? पितृयज्ञ (श्लोक-19) & पाकयज्ञ (श्लोक 21)
Vidyaranya quotes these verses in ‘Puranasara’, chapter 30 while discussing यवनादीनां कर्तव्यम् and दस्युधर्मनिरूपणम्. - shankaraH
Yavana from Ionian ~ 400 BCE Berber - From Greeks (200 BCE) Shaka - after 400 BCE. That’s precisely the period when outlander groups like Greeks, Scythians, Parthians, Kushanas, Hephthalites etc started to arrive in India and adopted local Dharmic traditions. - Akshay