- पर्वतदेशे कलौ देवरेण सुतोत्पत्तौ (त्तिः ) दुराचारः ।
- २ मैथिल-गौड-देशे सदातैल-लेपनं दुराचारः।
- गौडदेशे वेद-त्यागो दुराचारः।
- कान्यकुब्जदेशे पण्यस्थ-घृत-पक्व-भक्षणं दुराचारः। विवाहादी भोजनसमये परस्पर-स्पर्शनं दुराचारः।
- उत्तरदेशे पर-स्त्री-गमनम् दुराचारः।
- उत्कल-देशे मुखसुरतं दुराचारः ।
- गौड-इविड-केरल-उत्कल-मैथिलेषु पक्व-कलम-तण्डुल-भक्षणं दुराचारः।
- मगधे वर्ण-सङ्करणं दुराचारः ।
- चन्द्रावत्यां दासीगमनं दुराचारः।
- काश्मीरदेशीयाः द्विजाः केवल-यवन-प्रायाः खलु - तेषां दुराचाराणां गणनैव नास्ति ।
- सर्वेषां स्ववृत्तिं परित्यज्य अन्यवृत्त्य्-अवलम्बनं, कन्याद्य्-अविक्रयाणां विक्रयकरणं, पथि ताम्बूल-भक्षणम् इत्यादि दुराचारविशेषः स्वभावत एव भवति ।
स्वामिनः, महाराष्ट्रं विना सर्वासु जातिषु कश्चित् कश्चिद् दुराचारस् तिष्ठत्य् एव । महाराष्ट्रेष्व् अपि ये माध्वाः वर्तन्ते तेषां दुराचारस्य लेशोऽपि ११ न दृश्यते ।