Yuga decay tolerance

यथा-सम्भव-

पराशरः प्रायश्चित्तकाण्डे ११-तमे -

युगे युगे तु ये धर्मास्
तेषु तेषु च ये द्विजाः ॥ ५० ॥

तेषां निन्दा न कर्तव्या
युगरूपा हि ते द्विजाः ।

तत्र माधवः -

अस्याक्षरार्थः प्रथमाध्याये वर्णितः ।
अयम् आश्यः –
द्विविधा ह्य् अधर्मप्रवृत्तिः -
युगप्रयुक्ता, प्रमादालस्यादि-प्रयुक्ता च ।

तत्र युग-प्रयुक्तायाः प्रवृत्तेर् अपरिहार्यत्वान्
न तन्निवृत्तये पराशरस्योद्यमः ।
या तु प्रमादालस्यादिप्रयुक्ता प्रवृत्तिः
तत्र सावकाशं धर्मशास्त्रम् ।+++(5)+++

क्षत्रिय-वैश्य-सद्भावः

सम्भावित-स्वरूपाणां ग्राह्यता

तत्रैव पराशर-माधवीये प्रायश्चित्तकाण्डे ११-तमे क्षत्रिय-वैश्य-जात्योश् च स्व-रूप्रेणैवोच्छिन्नत्वम् उक्तम् -

तथा सति शास्त्रीय-मुख्य-ब्राह्मण्योपेतस्य कस्याप्य् अभावात्
क्षत्रिय-वैश्य-जात्योश् च स्व-रूप्रेणैवोच्छिन्नत्वात्
शुश्रूषयितव्यानां द्विजानाम् असंभवे
तच्-छुश्रूषकस्य मुख्यस्य शूद्रस्यात्यन्तानाशङ्कनीयत्वात्
किं चातुर्-वर्ण्यम् उद्दिश्य प्रवृत्तं धर्मशास्त्रं
स्वरूपेणैव लुप्यताम् ?
किं वा मुख्यासंभवे ऽपि
यथा-संभवं चातुर्वर्ण्यम् आश्रित्य
धर्मशास्त्रं प्रवर्तताम्?

इति मीमांसायाम्,
स्व-रूप-लोपाद् वरं
यथा-संभवानुष्ठानम्
इत्य् अभिप्रेत्य
युग-प्रवृत्तां सर्वैर् अप्य् अवर्जनीयाम् अधर्म-प्रवृत्तिम् अदोषत्वेनाभ्युपगम्य
“तेषां निन्दा न कर्तव्या” इत्य् उक्तम् ।

ततः संभाविताध्ययनाद्युपेतानां शक्यायां धर्म-प्रवृत्तौ
प्रमादालस्यादि-रहितानां च परिषत्त्वं कुतो न स्यात्?