Source: TW
महादानानि
From Laugākṣismṛti :
- By performing Mahādāna, Śūdra becomes eligible for Vedaśravaṇa.
- By performing all Dānas like Tulādāna, he becomes eligible for performing rituals with Vedamantras.
- By peforming Mahādānas thrice, he becomes equal to Vipra.
- By performing the Brahmāṇḍakaṭāha Mahādāna seven times, Śūdra becomes non-Śūdra.
- By performing Gosahasradāna thrice he becomes
equalsimilar to Vipra.
उच्चारणे तादृशस्य वेदवर्णस्य सन्ततम् ।
उप/… कारः ब्राह्मणस्य महात्मनः ॥
स्नातस्य कृतकार्यस्य
शुचेरेव विशेषतः ।
अध्यायदिवसेष्वेव
गर्जनाद्य् अप्रदूषणः ।।
तदुक्तौ योग्यता ज्ञेया
नान्यथा …महत् ।
अत्युत्तमं वेदधनं
न शूद्राणां तु तत्समम् ॥
धनमस्ति कदा लोके
तत्तु तेषां द्विजन्मनाम् ।
तस्य श्रवणतो नूनं…
शूद्रो (?) भाग्भवेत् ॥पठनात्सद्य एवायं
पतितो जायते वशात् ।
तत्क्षणादेव नितरां
महादानैकमात्रतः ॥
श्रवणे वेदवर्णस्य
योग्यो भवति नान्यथा ।सर्वेषामपि दानानां
तुलादीनां क्रमेण चेत्
करणे पद-वर्णस्य
वेद-मन्त्र-क्रियाग्रहे ।
अधिकारोस्ति तेष्वेव
दानेषु द्विज-वाङ्-मुखात् ॥सर्वदानक्रियाणां चेत्
त्रिवारं महतामपि ।
अनुष्ठानं शूद्र-जातः
विप्रतुल्य इति श्रुतिः ॥ब्रह्माण्डकटाहाख्यस्य
महादानस्य कर्मणः ।
करणात् सप्तवारस्य
शूद्रोऽशूद्रो भविष्यति +++(जन्मान्तरे)+++ ॥
त्रिवारं गोसहस्रस्य
करणेन जघन्यजः ।
च्युतः स्वजातितो नूनं
वैप्रं साम्यं प्रपद्यते ॥
धरादानत्रयेणाऽत्र
वृषलो जगतीतले ।
… इत्युक्तो
जनैर् ब्राह्मणवद् भवेत् ॥वेदाध्ययनतः पश्चाद्
अधीते क्रमम् आस्तितः+++(=??)+++ ।
प्रज्ञातवर्त्मना श्रीमान्
यस्सोऽयं ब्राह्मणोत्तमः
तत्तत्क्रतुफलं नूनं
प्राप्नोत्येवा??वच्मि वः ।
वेदप्रवचने नित्यं
जागरूकोऽनिशं भवेत् ॥
विस्मृतिं यस्तस्य गच्छेत्
तया ऽनर्थो महान् भवेत् ।
वेदप्रवचने नित्यम्
ऋतं सत्यं तपो दमः ॥
Mārkaṇḍeyasmṛti also mentions the various Mahādānas and so forth, by which Vṛṣalas and such others are said to attain Vipratva.
षोडश महादानानि
महादानादिकाश् चापि यैः
कृतैर् वृषलादिकाः ।
प्राप्नुवन्त्यपि विप्रत्वं
तानि चाद्य प्रवच्मि वः ॥गावः सुवर्णरजते
रत्नानि च सरस्वति ।
तिलाः कन्या गजाश्वाश्च
शय्या वस्त्रं तथा मही ॥
धान्यं पयश्च छत्रं च
ग्र(गृ)हं चोपस्करान्वितम् ।
एतान्य् एव तु चोक्तानि
महादानानि षोडश ॥षोडशैतानि यः कुर्यान् महादानानि मानवः ।
न तस्य पुनरावृत्तिर्
विष्णुलोकात् सनातनात् ॥पञ्चलाङ्गलदानस्य
प्रसंगात् कथयाम्यहम् ।
हलपङ्क्तिरिति ख्यातं
महादानमनुत्तमम् ॥दानमेतत्पुरा चीर्णं
दिलीपेन ययातिना ।
शिबिना निमिना चैव
भरतेन च धीमता ॥
ते यथा दिवि मोदन्ते
दानस्यास्य प्रदानतः ।
हिरण्यगर्भः
(क्षत्रियपृष्ठे वीक्षणीयम्। )