शूद्रोद्धारः (जन्मान्तरे)

Source: TW

महादानानि

From Laugākṣismṛti :

  1. By performing Mahādāna, Śūdra becomes eligible for Vedaśravaṇa.
  2. By performing all Dānas like Tulādāna, he becomes eligible for performing rituals with Vedamantras.
  3. By peforming Mahādānas thrice, he becomes equal to Vipra.
  4. By performing the Brahmāṇḍakaṭāha Mahādāna seven times, Śūdra becomes non-Śūdra.
  5. By performing Gosahasradāna thrice he becomes equal similar to Vipra.

उच्चारणे तादृशस्य वेदवर्णस्य सन्ततम् ।
उप/… कारः ब्राह्मणस्य महात्मनः ॥
स्नातस्य कृतकार्यस्य
शुचेरेव विशेषतः ।
अध्यायदिवसेष्वेव
गर्जनाद्य् अप्रदूषणः ।।
तदुक्तौ योग्यता ज्ञेया
नान्यथा …महत् ।
अत्युत्तमं वेदधनं
न शूद्राणां तु तत्समम् ॥
धनमस्ति कदा लोके
तत्तु तेषां द्विजन्मनाम् ।
तस्य श्रवणतो नूनं…
शूद्रो (?) भाग्भवेत् ॥

पठनात्सद्य एवायं
पतितो जायते वशात् ।
तत्क्षणादेव नितरां
महादानैकमात्रतः ॥
श्रवणे वेदवर्णस्य
योग्यो भवति नान्यथा ।

सर्वेषामपि दानानां
तुलादीनां क्रमेण चेत्
करणे पद-वर्णस्य
वेद-मन्त्र-क्रियाग्रहे ।
अधिकारोस्ति
तेष्वेव
दानेषु द्विज-वाङ्-मुखात् ॥

सर्वदानक्रियाणां चेत्
त्रिवारं महतामपि ।
अनुष्ठानं शूद्र-जातः
विप्रतुल्य इति श्रुतिः ॥

ब्रह्माण्डकटाहाख्यस्य
महादानस्य कर्मणः ।
करणात् सप्तवारस्य
शूद्रोऽशूद्रो भविष्यति +++(जन्मान्तरे)+++ ॥

त्रिवारं गोसहस्रस्य
करणेन जघन्यजः ।
च्युतः स्वजातितो नूनं
वैप्रं साम्यं प्रपद्यते ॥
धरादानत्रयेणाऽत्र
वृषलो जगतीतले ।
… इत्युक्तो
जनैर् ब्राह्मणवद् भवेत् ॥

वेदाध्ययनतः पश्चाद्
अधीते क्रमम् आस्तितः+++(=??)+++ ।
प्रज्ञातवर्त्मना श्रीमान्
यस्सोऽयं ब्राह्मणोत्तमः
तत्तत्क्रतुफलं नूनं
प्राप्नोत्येवा??वच्मि वः ।
वेदप्रवचने नित्यं
जागरूकोऽनिशं भवेत् ॥
विस्मृतिं यस्तस्य गच्छेत्
तया ऽनर्थो महान् भवेत् ।
वेदप्रवचने नित्यम्
ऋतं सत्यं तपो दमः ॥

Mārkaṇḍeyasmṛti also mentions the various Mahādānas and so forth, by which Vṛṣalas and such others are said to attain Vipratva.

षोडश महादानानि

महादानादिकाश् चापि यैः
कृतैर् वृषलादिकाः
प्राप्नुवन्त्यपि विप्रत्वं
तानि चाद्य प्रवच्मि वः ॥

गावः सुवर्णरजते
रत्नानि च सरस्वति ।
तिलाः कन्या गजाश्वाश्च
शय्या वस्त्रं तथा मही ॥
धान्यं पयश्च छत्रं च
ग्र(गृ)हं चोपस्करान्वितम् ।
एतान्य् एव तु चोक्तानि
महादानानि षोडश ॥

षोडशैतानि यः कुर्यान् महादानानि मानवः ।
न तस्य पुनरावृत्तिर्
विष्णुलोकात् सनातनात् ॥

पञ्चलाङ्गलदानस्य
प्रसंगात् कथयाम्यहम् ।
हलपङ्क्तिरिति ख्यातं
महादानमनुत्तमम् ॥

दानमेतत्पुरा चीर्णं
दिलीपेन ययातिना ।
शिबिना निमिना चैव
भरतेन च धीमता ॥
ते यथा दिवि मोदन्ते
दानस्यास्य प्रदानतः ।

हिरण्यगर्भः

(क्षत्रियपृष्ठे वीक्षणीयम्। )