म्लेच्छ-संस्कर्गः

म्लेच्छ-संसर्ग-वारणं केषुचित्

म्लेच्छीभावभिया
कैश्चिन् म्लेच्छसम्पर्को वार्येत।
यदि केन्द्रीभूताः शिष्टा एव परप्रभावतस् स्खलिताः,
कथं शास्त्रसदाचारादिरक्षेति।
यथा कोशे मध्यपिण्डम् (nucleus) सुरक्षितम्, तद्वद् अत्रापि।

इयं हीनभावनेति मन्तुं नोचितम्। न च सर्वा भीर् हेया।
शिष्टस्य श्राद्धादिष्व् अर्हितस्य पात्रं भिन्नम्,
लोक-भ्रमणाक्रमणादि-कर्तुः पात्रम् भिन्नम्। यथाऽधिकारम् अवस्थातुम् उचितम् एव।

विदेश-ज्ञान-सम्पादनानुवादादि शिष्टेतराः कुर्युर् एव,
तेन शिष्टा अपि यथापेक्षं प्रबोध्येयुः।

यथा खलु जीवकोशे कोशकेन्द्रं न बहिर् याति, कोशपरिधिर् एव साक्षाद् बाह्यसम्पर्कं तनोति, यथा चेन्द्रियमस्तिष्कव्यत्यासो वर्तते, तथाऽत्रापि।

विदेशज्ञानसम्पादनानुवादादि कुर्वाणाः
न हि शिष्टतमेषु परिगण्येरन्। जिज्ञासा-मिश्र-सन्देहेनैवेक्ष्येरन्।

म्लेच्छ-भाषा

वासिष्ठ-धर्म-सूत्रे शिष्टाभिज्ञान-प्रकरणे -

अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत् ३२

न म्लेच्छभाषां शिक्षेत् ४१
अथाप्युदाहरन्ति न पाणिपादचपलो न नेत्रचपलो भवेत्
न च वागङ्गचपल इति शिष्टस्य गोचरः ४२

एवम् अन्यत्रापि वर्तते -

“न वदेद् यावनीम् भाषाम्
प्राणैः कण्ठगतैर् अपि … “।

एवं म्लेच्छभाषाद्य्-अभ्यासेन +अशिष्टास् सन्तो ऽपि न भवन्ति पतिता ब्राह्मणाः।

समुद्र-यानम्

इदम् अन्यत्र विचारितम्।