अ-दोष-पक्षः
बोधायन-धर्म-सूत्रे तदीय-मतम् -
१८ अथ पतिताः समवसाय
धर्मांश् चरेयुर्
इतरेतर-याजका
इतरेतराध्यापका
मिथो विवहमानाः ।
पुत्रान् संनिष्पाद्य ब्रूयुर् -
“विप्रव्रजतास्मत्त, एवम् आर्यान् संप्रतिपत्स्यथे"ति ॥
अथापि न सेन्द्रियः पतति ॥
२० तद् एतेन वेदितव्यम् ।
अङ्गहीनो ऽपि साङ्गंजनयेत् ॥
- Now outcasts shall live together and (together) fulfil their duties, sacrificing for each other, teaching each other, and marrying amongst each other. If they have begot sons, they shall say to them, ‘Depart from among us; thus you will again reach the Āryas.’
For the organs do not become impure together with the man.
(The truth of) that may be learned from this (parallel case); a man deficient in limbs begets a son who has the full number of limbs.
आपस्तम्बश् च -
अथाभिशस्ताः समवसाय
पतित-पुत्रेषु चरेयुर् धार्म्यम् इति
सांशित्येतरेतर-याजका इतरेतराध्यापका मिथो विवहमानाः ८
पुत्रान्संनिष्पाद्य ब्रूयुर् -
“विप्रव्रजतास्मद् -
एवं ह्य् अस्मत्स्व् आर्याः संप्रत्यपत्स्यते"ति ९
अथाऽपि न सेन्द्रियः पतति ॥
तदेतेन वेदितव्यम् अङ्गहीनो ऽपि साङ्गं जनयति ॥ ११ ॥
- But Abhiśastas shall live together in dwellings (outside the village); considering this their lawful (mode of life), they shall sacrifice for each other, teach each other, and marry amongst each other.
- If they have begot sons, let them. say to them: ‘Go out from amongst us, for thus the Āryas, (throwing the guilt) upon us, will receive you (amongst their number).’
दोष-पक्षः
बोधायन-धर्म-सूत्रे हारित-पक्षः -
मिथ्यैतद् इति हारीतः ॥
दधि-धानी-स-धर्माः स्त्रियः स्युः ।
यो हि दधि-धान्याम् अ-प्रयतं पय आतच्य मन्थति
न तच् छिष्टा धर्म-कृत्येषूपयोजयन्ति ॥
एवम् अशुचि शुक्रं यन् निर्वर्तते
न तेन सह संप्रयोगो विद्यते ॥
Hārīta declares that this is wrong. … In like manner no intercourse can be held with that (offspring) which is produced from impure seed.
अस्मिन् प्रक्षे प्रायश्चित्तम् उक्तम् -
अशुचिशुक्रोत्पन्नानां तेषाम् इच्छतां प्रायश्चित्तिः ॥
पतनीयानां तृतीयो ऽंशः स्त्रीणाम् अंशस् तृतीयः ॥
(Viz. in the case of males) the third part (of the penance prescribed) for crimes causing loss of caste (patanīya); for females the third part (of that). I.e. males shall live, according to the rules given above in Sūtras 10-11, during one year, and females during four months.
आपस्तम्ब-धर्म-सूत्रेषु च -
मिथ्येतदिति हारीतः ॥
दधिधानीसधर्मा स्त्री भवति ॥
यो हि दधिधान्यामप्रयत्तं पय आतञ्च्य मन्थति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निवर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥
सगोत्र-विवाहापत्यम्
जनितृ-दोष-विचारो ऽन्यत्र।
अदोष-पक्षः
बोधायनापस्तम्बयोस् त्व् अभिप्रायेण नापत्यस्य दोषः। श्रौत-सूत्रेषु (प्रवर) १३.५५. कण्ठोक्तम् इदम् -
सगोत्रां गत्वा चान्द्रायणम् उपदिशेत् ॥
व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत् - मातृवद् भगिनीवत्।
गर्भो न दुष्यतीति - +++(स)+++ काश्यप इति विज्ञायते ।
क्वचिद् अत्र “ज्ञानतश्चेदुत्पादितः स चाण्डालो भवति” इति प्रक्षेपो दृश्यते क्वचिद् एव। अन्येषु तु नैवं वर्तते ।
अन्यत्र स एव धर्म-सूत्रेष्व् अबुद्धि-पूर्वक-गमनय् उवाच भिन्नम् -
३७ सगोत्रां चेद् अमत्योपगच्छेन् मातृवद् एनां बिभृयात् ।
३८ प्रजाता चेत् कृच्छ्राब्द-पादं चरित्वा
“यन् म आत्मनो मिन्दाभूत्”,
“पुनर् अग्निश् चक्षुर् अदाद्”
इति +एताभ्यां जुहुयात्
(अत्र
द्व्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यमिति स्मृतम् ॥
इति मासत्रयम्।)
एवम् अबुद्धि-पूर्वकतयोत्पादितय् अपत्ये ऽदोष एव सर्वैर् अभ्युपगत-प्रायः।
बोधायनेन विशिष्याबुद्धिपूर्वकाघे प्रायश्चित्तविशेषय् उक्ते,
श्रौतसूत्र-वाक्येनोकं बुद्धि-पूर्वकाघे मन्तुं शक्यम्।
गोत्रम्
बोधायनस्याशयस् तु -
अन्यत्रोक्तात् स्व-परिवाराद् विप्रव्रजनात् परम् आर्यान् प्राप्तः काश्यपम् आत्मानं ख्यापयेद् इति।
किञ्च, तत्रापि गोत्रं तथैव वाच्यम् इत्य् आग्रहो नास्तीति
तन्-मूल-श्रुतेर् अवलोक्य ज्ञायते।
**“सर्वाः काश्यप्यः प्रजाः” **इति श्रुतेर् उल्लेखं कुर्वन्त्य् एतादृश-वचनेषु व्याख्यातारः।
एवं तर्ह्य् अत्र सर्वस्मिन् काश्यपत्वं पूर्वम् एव सिद्धम्।
तद् एव स्मार्यते, न प्रवरभेद आग्रहेण विधीयत इति विश्वासः।
दोष-पक्षः
तत्रार्वाचीना बुद्धि-पूर्वक-सगोत्रा-गमनय्
अपत्यस्य चण्डालत्वम् आहुः -
स +हारित-पक्षो ऽवगन्तव्यः।
स्मृत्यर्थसारे यथा -
“इत्थं सगोत्र-सम्बद्ध-
विवाह-विषये स्थिते ।
यदि कश्चिज् ज्ञानतस् तां
कन्याम् ऊढ्वोपगच्छति ॥
गुरुतल्पव्रताच् छुध्येद्
गर्भस् तज्-जो ऽन्त्यतां व्रजेत् ।
भोगतस् तां परित्यज्य
पालयेज् जननीम् इव ॥
अज्ञानाद् ऐन्दवैः +++(=चान्द्रायणैः)+++ शुध्येत्
त्रिभिर् गर्भस्तु क(का)श्यपः +++(गोत्रतः)+++’
मण्डनोऽप्याह–
सगोत्रायां प्रजां जातां
चण्डालेषु विनिक्षिपेत् ।
… परिणीतसगोत्रायाम्
अज्ञानाज्जनितः सुतः ॥
क(का)श्यपो न तु चण्डालः
पितुः कृच्छ्राब्दपादतः
आरूढपतितापत्यं
ब्राह्मण्यां यश्च शूद्रजः ।
सगोत्रोढासुतश्चैव
चाण्डालास्त्रय ईरिताः
इति यमस्मृतिश्च ॥
वैखानसश् च -
तेषां गात्रोत्पन्नाद्ब्राह्मण्यामसगोत्रायां विधिना समन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो भवेत् ९