अनुलोमः प्रतिलोमः

अनुलोमेन ब्राह्मणाद्य्-उत्पत्तिः,

धर्माकूते सुन्दरकाण्डे सविस्तरम् -

[तथा हि- ब्राह्मणात् क्षत्रियायाम् उत्पन्नाः] त्रि-विधाः -
ब्राह्मणो मूर्धावसिक्तः क्षत्रियश् चेति । +++(5)+++
‘ब्राह्मण-कन्यकाया अलाभे
स्नातक-व्रतं चरेत् ।
क्षत्रियायां वा पुत्रम् उत्पादयीत वैश्यायां वा’

इति पैठीनसि-वचनेन
क्षत्रिया-विवाहस्यानुमतत्वात्,
तस्यां ब्रह्म-विवाहोढायां धर्मान्वयवत्यां क्षत्रियायां
ब्राह्मणाद् उत्पन्नो ब्राह्मण एव ।

यस् तु धर्मान्वयिन्यां ब्राह्मण्यां सत्यां
रत्य्-अर्थोढायां क्षत्रियायां ब्राह्मणाद् उत्पन्नः
स मूर्धावसिक्तः ।

क्षत्रियेण पुत्रार्थतया प्रेषितायां क्षत्रिय-भार्यायां ब्राह्मणाद् उत्पन्नः क्षत्रिय एव ।

Ritual access

सूते विशेष उच्यते।

गौतमधर्मसूत्रे सभाष्ये [[82]] -

प्रतिलोमास्तु धर्महीनाः ॥ २० ॥

प्रतिलोमाज्जाताः सूतादयो धर्महोना उपनयनादिधर्महीना ।
तत्र सूतस्यैकस्योपनयन-मात्रं शास्त्रान्तरे ऽङ्गीकृतम् ॥ २० ॥ (इति हरदत्तः)

प्रतिलोम विवाहों से उत्पन्न सन्तानों ( सूत, मागघ, और चण्डाल ) के उपनयन आदि धर्म नहीं होते ॥ २० ॥

तुशब्दो विशेषार्थः, सृष्टेर् अपि प्रतिलोमाजातः सूतादिः धर्महीनः
तदन्तरे प्रतिलोमाज् जातो विशेषत एवेति ।
धर्मशब्देनोपनयनं द्रष्टव्यम् ।
एवं च अनुलोमानाम् उपनयनं सिद्धम् ।+++(5)+++
वेदाध्ययने तु प्रतिषेधो द्रष्टव्यः ।
कुतः -

’ अनुलोमानाम् उपनयनम् एव, न वेदाध्ययनं, न पञ्चयज्ञः, नौपासनं, नाग्निहोत्रं, न समित्कार्यं, न सन्ध्योपासनम्, उपनयनमपि तूष्णीमेव'

इत्यादि-स्मृत्य्-अन्तर-दर्शनात् ॥

It is being practised on ground by a community who identify themselves as Sūtas. Source: TW

विद्यारण्यस्य पुराणसारे -

अवरैरुत्तमस्त्रीषु
जातः स्यात्प्रतिलोमजः ।
क्षत्रियाद्विप्रकन्यायां
सूतो नाम प्रजायते ।
प्रतिलोम निवासेषु
विष्णोरभ्यर्चनं तथा ॥ ३६ ॥
धर्मावबोधनं तस्य
सारथ्यं कटविक्रयः ।
नित्यं द्विजवद्-आचारः
इति सूतस्य वृत्तयः ॥ ३७ ॥