द्राविडकालमानं सौरम्।
आडि (आषाढ)
अत्र शुक्रवासरेषु हॆब्बार्श्रीवैष्णवाश् शुष्कपिष्टेन गुडं घृतं च मिश्रयित्वा तस्मिन् दीपं ज्वालयित्वा विष्णवे निवेदयन्ति। अन्ये द्राविडाश् श्रीवैष्णवा दुग्धे गुडं एलाय्चिं च मिश्रयित्वा निवेदयन्ति।
- तस्मिन् मध्यमशनिवासरे “तिरुवाडिपूरम्” इत्य् आण्डाळ्-गोदा-देव्या अवतारदिनम् आचर्यते।
पुरट्टासि
हॆब्बार्-श्रीवैष्णवा श्रीवत्सगोत्रोद्भवा अस्मिन् मासे शनिवासरेषु रजतपात्रचषकहस्ता ब्राह्मणगृहेभ्यस् तण्डुलानि याचित्वा ऽऽनीय, जले निमज्य मृदूकृत्य, पिष्ट्वा, तस्मिन् दीपं ज्वालयित्वा विष्णवे निवेदयन्ति। अन्यगोत्रेषु प्रायेण न वर्तत इदं याचनम्।