हेतुः - पैत्रम् दैवं आर्षम् आराधनम्
सामान्यविधिः
- कृत-स्नानेन द्रव-वस्त्र-धृतेन आचमनं।
- सङ्कल्पः
- निश्चितक्षेत्रे हस्तभागे च तीर्थक्षेपः प्रायः ओदनादिना सह
- कुक्कुटासनधारणं।
- भावनम्
- स्वाहाकारे तर्पणे च देवता-दृष्टिः
प्रमाणानि
देवान् ऋषींश् च तर्पयन्ति।
वैशम्पायन-प्रभृतींस् तु मातुः प्रपितामह-पर्यन्तान् प्राचीनावीतिनस् तर्पयन्ति।
“अमुं तर्पयाम्य्, अमुं तर्पयाम्य्, अमुं तर्पयामी"ति
…
एवम् एवाद्भिर् अहर्-अहर् देवान् ऋषीन् पितॄंश्च तर्पयेत् ॥२६॥
इत्य् आपस्तम्बः।
एवम् आपस्तम्बोऽप्य् ऋषिषु केषुचित् प्राचीनावीतिं वदति।
A sAmavedin was of the opionion that devatarpaNa - once, RShitarpaNa twice, pitRtarpaNa - thrice. Belief otherwise attributed to text propagation/ sanxepa errors.
दैवम्
- हस्ताग्रतस् तीर्थक्षेपः। (देव-तीर्थम्)
- यज्ञोपवीतम् उपवीतौ
पैत्रम्
- अङ्गुष्ठ-प्रदेशात् तीर्थ-क्षेपः (पितृ-तीर्थम्)
- यज्ञोपवीतं प्राचीनवीतौ
- त्रिस् तर्पयन्ति।
आर्षम्
- अनामिकातलात् तीर्थक्षेपः (आर्षतीर्थम्)
- यज्ञोपवीतं मालावत् निवीतौ, उपवीतौ वा।
- क्वचित् तु प्राचीनावीतौ, पितृवच्च तर्पणम्।
एवम् आश्वलायनो ऽपि।
- उपाकर्मणि सकृद् एव तर्पणम्, उपवीतिर् अपि स्यात् - होम-स्थान-ग्रहणात्
- ऋषितर्पणम्। वेदतर्पणम्। शास्त्रतर्पणम्। काण्डऋषितर्पणम्।
- काण्डऋषयः
- यजुर्वेद-काण्डऋषयः प्रजापतिः, सोमः, अज्ञिः, विश्वे देवाः, ब्रह्मा स्वयम्भूः, सदसस्पतिः।।
- औपनिषद ऋषयः - सांहित-देवताः, यज्ञिक-देवताः, वारुण-देवताः।