स्थलम्

चयनम्

  • अग्न्यागारनिर्माणे हयखुरचिह्नितभूमिः। (तेन-आर्य-वर्त्म-स्मरणम्)
  • दर्भेष्व् आसनम् (तेन-आर्य-वर्त्म-स्मरणम्)

आसनम्

आसन-स्थलस्य प्रोक्षणं। न्यासः - पृथिव्यामेरु-पृष्ठः ऋषिः, सुतलं छन्दः, श्री कूर्मो देवता। ‘पृथ्वी त्वया धृताः लोकाः। देवी त्वं विष्णुना धृता। त्वं च धारय मां देवी, पवित्रं कुरु च आसनम्।’

नित्यहोम+आगारः

  • शुचौदेशे दक्षिणाप्रवणे श्राद्धागारम्।
  • सर्वतः परिश्रितमुदग्-द्वारम्।
  • तस्य पूर्वोत्तरे देशे अग्निरौपासनः ।
  • तस्य दक्षिणतः पिण्डदानार्थ स्थण्डिलम् ।
  • तस्य दक्षिणतः उदङ्मुखाः पित्रार्थाः। पश्चात्प्राङ्मुखाः देवार्थाः।
  • पात्रादि-नाना-द्रव्य-स्थापनाय दर्भ-तल्प-कल्पनम्।

पीठ-संस्करः

दिक्ष्व् अक्षतार्पणेन नमोवचनेन च साकं दिक्पालपूजा