यज्ञसूत्रम्

उत्तरीय-मेखलाभ्यां सम्बन्धः

  • खे ऽग्रहायणस्य मृगशीर्षस्य सोमाधिपस्य यज्ञस्य +उपवीतं यज्ञोपवीतम् - “यज्ञोपवीतम् असि। यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि” इति मन्त्रः।
  • पुरा कटेर् उपरि धर्यते स्म। वस्त्रात्मकं च तदासीत्। पश्चाद् +हि वामस्कन्धे सूत्रात्मकम् बभूव। +++(तत्र स्मृत्याधाराणि प्रमाणानि तिलकबालगङ्गाधरस्य Orion ग्रन्थे।)+++
    • नाम्नि यज्ञशब्दस्य स्थाने जघनशब्दः स्याद्वेति क्वचित् सन्देहः।
    • +++(यज्ञसूत्रं कथम् आविरभवत्? मेखलाया उत +उत्तरीयात्??)+++ मेखलाप्रतिनिधिर् आसीदादौ, पश्चाद् उत्तरीयस्यैव प्रतिनिधिर् बभूव।
    • तेन यज्ञोपवीतम् इत्य् उत्तरीयधर्मान् प्राप्नोति - नाम कर्मानुसारं निवीतं प्राचीनवीतं वा क्रियते।

यज्ञोपवीतपरिवर्तनम्

  • ब्रह्मा ऋषिः, त्रिष्टुभ् छन्दः, त्रयीविद्या देवता।
  • hold the yajnopavItam with both hands, with your right
    palm facing up over your head, and your left palm facing
    the ground. The top of the brahma-mudi (knot) should be
    on your right palm and should be facing right.
  • यज्ञोपवीतं परमं पवित्रं प्रजा पतेः यत् सहजं पुरस्तात्।
    आयुष्यं अग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
  • गृहस्थाश्रमार्हस्य द्वितीययज्ञोपवीतस्य धरणम्।
  • जीर्ण-यज्ञोपवीत-निष्कासनम्
    • उपवीतं छिन्नतन्तुं जीर्णं कश्मल दूषितम्।
      विसृजामि पुनर् ब्रह्मन् वर्चो दीर्घायुरस्तु मे॥
    • तरुमूले निःक्षेपः।

कर्मसु स्थितिः

  • दैवकर्मसु
    • उपवीतस्थितिः
  • पितृकर्मसु
    • प्राचीनावीतिः
  • आर्ष-कर्मसु
    • निवीत-स्थितिः (मालावत्)