- अर्वाचीनैः उपवीत-निवीत-प्राचीनावीतानां यज्ञसूत्रेणैवान्वयः क्रियते। तन्न स्यात्। उत्तरीयस्यैवेमानि स्थानानि प्रधानानि। किञ्च यज्ञसूत्रम् अद्यत्व उत्तरीयसदृशं धार्यत इति हेतुना तस्याप्य् उत्तरीय+अनुकरणं स्यात्।
यज्ञोपवीतम्
- यज्ञकर्मण्य् आवश्यकम् (तैत्तिरीयब्राह्मणम् - यज्ञोपवी॒त्य् ए॑वाधी॑यीत या॒जये॒द् यजे॑त वा)। सर्वदैव यज्ञोपवीतवान् स्याद् इति च प्रथा जाता।
- लघूकरणम् (shortening)
- रीतिः १ - YT
निवीतम्
- परिकरबन्ध इत्य् एव साधुः। यथाह कुमारीलभट्टः - “निवीतं केचिद् गल-वेणिका-बन्धं स्मरन्ति । केचित् पुनः परिकर-बन्धम्।”
- उत्तरीयवद्धृतस्य यज्ञसूत्रस्य +अस्तु नाम गलवेणिकाबन्धः सौकर्यार्थम्।
प्राचीनावीतम्
- यज्ञोपवीतम् उत्तरीयाद् भिन्नम्।
धरण-विधानानि
- वामभुजे बन्धनं माध्वैर् यथा क्रियते
- एतद्धि रोचतेतमाम्।
- वामभुजे लम्बनम् साधारणम्
- ग्रीवायाः पृष्टतो बन्धनम्
कटौ बन्धनम्
श्रीवैष्णवैः देवमन्दिरे ‘धार्यं कट्यामुत्तरीयं पितृकार्ये सुरालये’ इत्यादिप्रमाणेभ्यः उत्तरीयं कट्यां बध्यते । यज्ञोपवीतमीमांसा नाम वादग्रन्थोऽप्यस्मिन् विषये वर्तते । सम्प्रदायविषय एषः ।