स्त्री-दर्शन-वैरल्ये
रामायणे -
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे।
न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः॥ ६.११७.२७
भासकृते प्रतिमानाटके -
स्वैरं हि पश्यन्तु कलत्रम् एतद्
बाष्पाकुलाक्षैर् वदनैर्भवन्तः।
निर्दोष-दृश्या हि भवन्ति नार्यो
यज्ञे विवाहे व्यसने वने च॥
अवघुण्टनोल्लेखः
शाकुन्तले -
का “स्विद् अवगुण्ठन-वती”
नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां
किसलयम् इव पाण्डुपत्राणाम्॥