पवित्रधरणम्

लक्षणम्

स्मृतिभास्करे -

चतुर्-अङ्गुलम् ऊर्ध्वाग्रं
ग्रन्थिर् एकाङ्गुलन् तथा ।
वलयं द्व्य्-अङ्गुलञ् चैव
पवित्रस्य तु लक्षणम् ॥

रत्नाकरे -

सकृत्-प्रदक्षिणी-कृत्य
पवित्रम् अभिधीयते
तद् एव द्वि-गुणी-कृत्य
ब्रह्म-ग्रन्थिर् विधीयते

प्रभेदाः

गवां वाल-पवित्रस्य
सुवर्णस्य तथैव च ।
न ब्रह्म-ग्रन्थि-नियमः
धारयेत्तु यथा तथम् ॥

सृष्टिः

समाव् अप्रच्छिन्नाग्रौ दर्भौ
प्रादेश+++(=१२ आङ्गुल)+++-मात्रौ +++(२० अङ्गुलाव् इति केचित्)+++
गृहीत्वा,
तृणं काष्ठं वाऽन्तर्धाय छित्वा
अप उपस्पृष्य
तयोर् मूलाद् आरभ्याऽग्राद् अद्भिः मार्जनम्
यथोचितं व्यावर्त्य पाशं कृत्वा दक्षिण-अनामिकायां धरेत्।

प्रदर्शनानि

प्रयोगः

“पवित्रपाणिः” इति वदेत्।

निष्कासनम्

  • शौचालयादेर् गमने पवित्रं कर्णे निवेशयन्ति केचित्
  • निष्कासनसन्दर्भे निर्ग्रन्थीकरणम्