सङ्कल्पः

भावः

  • सुविस्तृत-देश-काल-कीर्तनेन ब्रह्माण्डमहायन्त्रस्याङ्गत्वम् अनुभूयते।
  • सक्रम-परामर्शेन देशकालयोर् महान् विस्तार आविर्भवतीव, यद्-अग्रे जीवसमस्या अहङ्काराश् च क्षुद्रतां यन्ति।
    • ननु तेनैवाभिनवगुप्तेन देशाध्व-कालाध्व-परामर्शाव् उक्तौ।

श्रौत-परिभाषायाम् “आगूरणम्”॥

वचनम्

महान्

अस्मिन् ब्रह्माण्डे कस्मिन् कालावधौ वर्तमानः कर्म कुरुतय् इति खलु सङ्कल्पे वाच्यम्।

हरिः। ॐ। तत्।
श्री-गोविन्द गोविन्द गोविन्द!
अस्य श्री-भगवतो महापुरुशस्य विष्णोर् आज्ञया प्रवर्तमानस्य वर्तमान+++(अद्य)+++-ब्रह्मणो द्वितीय-परार्धे
श्री-श्वेत-वराह-कल्पे

इत्य् एतावच् छब्दैकज्ञेयम् उक्त्वा
प्रत्यक्षानुमानाभ्यां ज्ञातः काल इत्थं कीर्त्यते -

ब्रह्माण्डोपबृंहणात् पादोन-चतुर्दश-पद्म-वर्षेभ्यः परम्
पृथिव्युद्भवात् सार्ध-चतुः-पद्म-वर्षेभ्यः परं
सौरपाकोद्भवात् त्रि-पद्म-वर्षेभ्यः परम्,
जारक+++(=O2)+++-प्रसारात् द्वि-पद्म-वर्षेभ्यः परम्,
बहु-कोश-प्राण्य्-उद्भवात् सार्ध-पद्म-वर्षेभ्यः परम्,
भू-सस्योत्पत्तेर् अर्ध-पद्म-वर्षेभ्यः परम्,
जरायु-ज+++(=mammal)+++–प्राक्-पक्ष्य्+++(=dino)+++-उद्भवात् पाद-पद्म-वर्षेभ्यः परम्,
प्राक्-पक्षि-कुल-प्रलयात् सार्ध-षट्-कोटि-वर्षेभ्यः परम्,
हिमालयोद्भवात् पञ्च-कोटि-वर्षेभ्यः परम्,
द्वि-कोटि-वर्ष-प्राचीने कपि+++(=ape)+++-युगे, द्वि-लक्ष-वर्ष-पुरातने मानुष-कपि-युगे,
अयुत-वर्ष-प्राचीने कृषि-युगे,
(वैवस्वत-मन्वन्तरे कलियुगे प्रथमपादे)
कतिपय-शत-वर्ष-दीर्घे घर्म-युगे +++(←fossil fuel warming, anthropocene)+++ मध्ये

ततो म्लेच्छ-काल- कीर्तनम् -

२०२५-तमे संवत्सरे व्यावहारिके , ??-मासे, ??-दिने, ??-वासरे

ततः -

सूर्ये ??-राशौ ??-नक्षत्रे सति, चन्द्रमसि ??-राशौ ??-नक्षत्रे सति,
प्रभवादि-षष्टि-संवत्सराणाम् मध्ये ?? नाम संवत्सरे ??आयने, ?? ऋतौ, ?? आर्तवे मासे, ?? चान्द्रे मासे, ?? पक्षे, ?? शुभ-तिथौ,

ततो ऽवशिष्टं देश-कीर्तनम्-

भगवद्-भृतेषु बहुषु ब्रह्माण्डेषु
निखर्व-भ-चक्र-युक्ते दृश्यमान-ब्रह्माण्ड-भागे
कन्या-सिंह-सप्तर्षि-शिंशुमारादि–भ-चक्र–राशौ +++(=virgo supercluster)+++
निखर्व-भ-युक्तायाम् आकाश-गङ्गायां बाह्य-भागे सौर-मण्डले
भू-गोल-त्वचि, उत्तर/दक्षिण-कटाहे

(जम्बु-द्वीपे, भारत-वर्षे, भरत-खण्डे) (क्रौञ्चद्वीपे गोतीर्थ-खण्डे) वा,
(मेरोर् दक्षिणे पार्श्वे) | (रमणक-वर्षस्य +उत्तरे)

योग-करणादि-कलनं चापेक्षितं चेत् -

“श्री-विष्णु-योग श्री-विष्णु-करण शुभ-योग शुभ-करण”
एवं-गुण-विशेषण-विशिष्टायाम्, अस्याम् शुभ-तिथौ,

उद्देश-कथनम्

परमैकान्तिनः कैङ्कर्यपरास् तु -

(शास्त्रावगत)-भगवद्-आज्ञया/अनुज्ञया
प्रत्यक्ष-भागवत-कल्याणानुमेय-भगवत्-प्रीत्यर्थम् (/ऽमुष्मै उपप्रयोजनाय)
अमुककर्म करिष्ये

इदम् भगवते निवेद्यमानम् इति भावयेत्।
यावद् इदं निवेदनं भाव-पूर्णम्, तावज् जीवस्य सुखम् भावि।

यावच् छक्यं कर्मण उद्देशः स्पष्टीक्रियेत -

  • उदाहरणाय ‘समस्त-परिवारस्य समृद्ध्यै’। देवालयेषु विशेष-अर्चन-समये एतत् सामान्यं।
  • हेतुः
    • इष्ट-भावनाया जागरणाय बहु मुख्यम् इदम्।

सङ्कल्प-मुद्रा

  • सम्यकासने स्थित्वा सङ्कल्प-मुद्रां धारयेत्।
  • दक्षिणजानौ।
  • तालयोर् मध्ये स्युर् अक्षताः कदाचित्।
  • अक्षता-त्यागः
    • कस्मिंश् चित् पात्रे अक्षतानां त्यागः देवतीर्थेन (देवतर्पणवत्)।
    • सपत्नीक-सङ्कल्पे, जलक्षेप्त्री स्यात् पत्नी