मन्त्र-वचने।
- शिरसं स्पृशन् आर्षस्मरणम्।
- कण्ठं स्पृशन् छन्दस्स्मरणम्।
- हृदयं स्पृशन् देवतास्मरणम्।
अङ्गन्यासः
साधारणक्रमः
नमः-स्वाहा-वषट्-वौषट्-
हुं-फट्-कार-क्रमेण तु ।
एते वै जाति-षट्काश् च
हृदाद्य्-अस्त्रान्तकैर् युताः ॥
- १) ॐ हृदयाय नमः २) तत्सवितुः शिरसे स्वाहा ३) वरेण्यम् शिखायै वषट् ४) भर्गोदेवस्य (नेत्रस्पर्शं) नेत्राय वौषट्। धीमहि बलाय कवचाय हुम् (बहुस्पर्शः)। “धियोयोनः प्रचोदयात्” वीर्याय अस्त्राय फट् (clap)
मन्त्रलिङ्गैः
- प्रजनने ब्रह्मा तिष्ठतु इत्यादि
- अग्निर् मे वाचि श्रितः इत्यादि
- आचमन-न्यासः अन्यत्रविवृतः।
- ओं भूः पादयोः इत्यादि
दिग्बन्धः
- शिरसि उपरि तर्जिन्या प्रदक्षिणं कूर्वन् ‘[भूर्भुवस्वरो३म्]’ इति दिग्बन्धः।
करन्यासः
- कराग्रे वसते लक्ष्मी इत्यादि।
- बीज-मन्त्रस्य उचितं भागं उच्चरन् अङ्गुलीनां च करतलस्य घर्षणं भवेत्।
- दीर्घे करन्यासे उचित-मन्त्र्ण सह ‘अङ्गुष्टाभ्यां/ तर्जिनिभ्यां/ मध्यमाभ्यां/ अनामिकाभ्यां/ कनिष्टिकाभ्यां/ करतल-करपृष्टाभ्यां नमः’ इति विहृतयः संयोजितव्याः।