द्रव्यम्

विशिष्ट-मन्त्राभावे आराध्यदेवता-मूलमन्त्रं प्रयुञ्जीयात्।

वीक्षणम्

मूल-मन्त्रेण निरीक्ष्य।

संमर्शः

पवित्रपाणिना

द्रव-संस्कारः

जलस्य घृतस्य …

उत्पवनम्

  • विधयः
    • पवित्रदर्भौ हस्ताभ्यां गृहीत्वा त्रिः समीपतो दूरं चालय पात्रे
    • पवित्रमन्तर्धाय, अप आसिच्य, उदगग्राभ्यां पवित्राभ्यां त्रिः प्रागुत्पूय

जल-संस्कारः

  • गङ्गे च यमुने चैव ॰ इति सुरभि-मुद्रां दर्शयेद् ओंकारेण सह।
  • भिन्न-पात्राणि पूरयेत्। भिन्नजलेषु विशिष्टद्रव्याणां मिश्रणम् (स्नानीये औषधिः काचित्… इत्यादि)।
  • ‘ॐ नमो नारायणाय’ सदृशं दैव-मन्त्रं उच्चर्य ‘अर्घ्यं परिकल्पयामि’ सदृशं वाक्यं वदन् सर्वान् पात्रान् पूरयेत्।
  • ‘ॐ यं वायवे नमः, शोषयामि’ इति वदन् दक्षिण-हस्ते वायु-अक्षरं लिखित्वा पात्राणां उपरि प्रसारयेत्। तथैवा ऽग्निं स्मरन् दाहनं कुर्यात्।

जलेन

प्रकाराः

  • प्रोक्षणम् उत्तानहस्तेन।
  • अभ्युक्षणम्
    • न्यञ्चिहस्तेन
    • हुम् इति कवचमन्त्रेणाभ्युक्षणम्
  • अवोक्षणम्
    • पार्श्वहस्तेन - यथा “अदितेऽनुमन्यस्व” इत्यादौ
  • मार्जनम् कूर्चेनापि

प्रोक्षणे मन्त्राः

  • “ॐ दधिक्राव्णो अकारिषं” इत्यादि
  • आपो हि ष्ठा इत्यादि
    • न्यासं - सिन्धूद्विपः ऋषिः देवी गयत्री छन्दः, आपो देवता।
    • “यस्य क्षयाय जिन्वथ” वचनान्ते पादप्रोक्षणं।
  • ‘ॐ भूर्भुवः स्वः॥’ इति, भूर्वभुवस्वसुवरोम् इति वा
  • मूलमन्त्रेण वा

मार्जने मन्त्राः

  • प्रोक्षणे यथा
  • हिरण्यवर्णाः
  • “येन देवाः पवित्रेण आत्मानं पुनते सदा||तेनसहस्रधारेण पावमान्यःपुनंतुमा||” इति पावमानीः वदति।
  • दिक्षु
    • ऐशान्यां बहिर्देशे अरिष्टनिरसनमस्तु।
    • प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्। दक्षिणायाम् दिशि मासाः पितरो मार्जयन्ताम्। प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम्। उदीच्यां दिश्य् आप ओषधयो वनस्पतयो मार्जयन्ताम्। ऊर्ध्वायाम् दिशि यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम्।

दर्भैः

  • मार्जनम् - विशिष्य यज्ञायुधानाम्
  • दर्भैस् ताडनम् (त्रिः)

फट् इत्यस्त्रमन्त्रेण

अग्निना

  • अग्नौ प्रतितापः