आमश्राद्धम्
कदा कार्यम्?
- मासिश्राद्ध असम्भवे।
- आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्यं शूद्रः कुर्यात्सदैव हि ॥
कर्म
चरोरभावात्तद्धर्माणामभावः ।
ब्राह्मणेभ्य आमद्रव्यदानम्, आहुतयश्च
- ब्राह्मण-निमन्त्रण-पूजनादिकम् यथा मासिश्राद्धे प्रायेण
- भोजनाभावाच्च तत्सम्बन्धिनामप्यभाावः ।
- “अग्नौ करिष्यामी"त्यामन्त्र्य आथाग्निमुखान्ते तण्डुलाद्यमद्रव्येण होमकरणम् ।
- ततस्तन्त्रशेषं समाप्य, तण्डुलाद्यामद्रव्यं श्राद्धार्थं ददाति ।
ततः पिण्डदानमामेन, गृहादाहृतेन पक्वेन वेति ।
प्रदान-मात्र-श्राद्धम्
अत्यन्तापदि।
“अपि ह वा हिरण्येन प्रदानमात्रम्”
“अपि वा मूलफलैः प्रदानमात्रम्”