- हेतुस्मरणम् - सङ्कल्पम् ईक्षताम्
- सन्ध्या-मुहूर्त-उपयोगः
पूर्वाङ्गम्
- आचमनप्राणायामौ
- सङ्कल्पः
- सात्त्विकत्यागः
पावित्र्यप्राप्तिः
प्राशनम् अपाम्
प्रातः
सायम् - सूर्यश्च मामन्युश्च …
मध्याह्ने
प्रोक्षणम्
- दधिक्राव्णोऽकारिषम् …
- अपोहिष्ठा …
अर्घ्यप्रदानम्
भावः (द्रष्टुं नोद्यम्)
- जलबिन्दवो वज्रा भूत्वा राक्षसान् घ्नन्ति, ततो देवजयो धर्मरक्षा चेति ब्राह्मणम्।
- {सायणो ऽत्र।}
प्रदक्षिण-क्रमणम्
भावः (द्रष्टुं नोद्यम्)
- यत्प्रदक्षिणं प्रक्रमन्ति तेन +++(अर्घ्यप्रदानेन रक्षोहननस्य)+++ पाप्मानम् अवधून्वन्ति। उद्यन्तम् अस्तंयन्तम् आदित्यम् अभिध्यायन्, (प्रदक्षिणं) कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रम् अश्नुते असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति ।। २ ।।, इति । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः
- हृदयस्पर्शेन - “असाव् आदित्यो ब्रह्म” इति वचनम्।
- आत्म-प्रदक्षिणं कुरुते।
- आत्मनः परितः जलं क्षिपति पापापकर्षणाय।
गायत्रीमन्त्रजपः
- हेतुः
- पाप-नाशः (मनुः)
पूर्वां सन्ध्यां जपंस् तिष्ठेत् सावित्रीमाऽर्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥
इति मनुः।
- आचमन-प्राणायामौ
- आसनप्रोक्षणम्
- सर्वाङ्गन्यासः
“ॐ” हृदयाय नमः
“तत् सवितुः” शिरसे स्वाहा
“वरेण्यं” शिखायै वषट्
“भर्गो देवस्य” नेत्रयोर् वौषट्
“धीमहि” बलाय कवचाय हुम्
“धियो यो नः प्रचोदयात्” वीर्यायास्त्राय फट् ।
- गायत्री-आवहनम्
-
दिग्बन्धनम्।
-
जपः
- अत्र लोहितार्क एव ध्यायताम्
- तूरीयपादस्य दशस्व् एकवारं जपः
प्रणवव्याहृतीयुक्तां
गायत्रीं तु ततो जपेत् ।
छिन्नपादा तु गायत्री
ब्रह्महत्यां व्यपोहति ॥
- गायत्री-उद्वासनम्
उत्तराङ्गाणि
मित्रोपस्थानम् प्रातः
वरुणोपस्थानं सायम्
मध्याह्ने
सन्ध्यादिनमस्कारः
सप्रदक्षिणं
ओं सन्ध्यायै नमः, सावित्र्यै नमः, गायत्र्यै नमः, सरस्वत्यै नमः, सर्वाभ्यो देवताभ्यो नमो नमः
सूर्यदर्शनम्
- माध्याह्निके प्रशस्यते मुद्रया।
१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...
+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तँ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।
सूर्यादिनमस्कारः
कामोऽकार्षीन्, मन्युर् अकार्षीन्, नमो नम
इति चोक्त्वा,
“असाव् आदित्यो ब्रह्म”, “स यश् चायं पुरुषे यश् चासावादित्ये” इति भावेन
अभिवादन-पूर्वकम् नमस्कुर्यात्।
दिग्-वन्दनम्
शिंशुमार-ध्रुवयोर् वन्दनं सायम्
कर्म-दोष-प्रायश्चित्तम्
कामोऽकार्षीन्मन्युरकार्षीद् ।
जपादिमध्ये वाङ्नियमातिक्रमे “इदं विष्णुरि"ति ऋचं जपेत् ।
असौकर्ये विकल्पाः
- मानसिकम् अनुष्ठानम्
- अन्येनानुष्ठानम्