रजस्वला-नियमः

कालः

रोगजन्यरजोऽनुवृत्तौ तु नास्त्यशुद्धिः ॥

आद्वादशाहान्नारीणां मूत्रवच्छौचमिष्यते ।
आष्टादशाहात् स्नानं स्यात् त्रिरात्रं परतोऽशुचिः ॥

त्रियामाया रात्रेर् अन्तिम-यामे रजः प्रारब्धे,
न सा रात्रिर् गण्यते द्राविडेषु।
मिताक्षरायां तु गण्यते।

निषेधाः

आधुनिककाले रजस्वलास् स्नान्ति,
कार्यार्थं यन्ति बहिः … - नैवम् पुरा।
यदि शक्यं तदर्थं शौचालयभेदादि कल्पयेत्।

तथापि -
न पचेत,
न देवपितृकर्माणि कुर्यात्,
नोपनीतैस् सह भाषेत स्पृशेद् वा।
अनिवार्यतया तु भाषणं स्यात्।

चतुर्थ-दिने

तदा (सङ्गवे) स्नानम्, स्पर्शयोग्यता च।
गृहस्य सम्प्रोक्षणम् (शुद्धिपुण्याहम् वा) अपि कुर्वन्ति सर्वत्र चलितम् इति।

(नैवेद्य-पाक-सहितानि) देवपितृकर्माणि न चतुर्थदिने अपि निषिद्धानि ।
ध्वजस्तम्भरहितेषु मन्दिरेषु तु गन्तुम् अर्हतीति द्राविडेष्व् आचारः।
एवं यावद्-रजो-निवृत्तिर् इति केचित्।

ऋतुकाले ततः समावेशः।