का सुरा? मद्यविशेषः।
- तथा भविष्ये । “सुरा तु पैष्ठी मुख्योक्ता न तस्यास्त्वितरे समे ।”
- मद्यं द्वादशविधं यथा पुलस्त्यः । “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् । माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥” अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दो मदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतु मद्यमात्रं सुराशब्दार्थः ।(इत्थं कल्पद्रुमे)
- गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैः ॥ (मनुस्मृतौ – केचन प्रक्षिप्त इति।) किञ्च – पश्चात् सुरा नाम मद्यभेद इति ज्ञायते – गौडीमाध्वीभिन्ना [अनुवादो ऽत्र] अतः वदन्ति – “त्रिविधा सुरेति गौडीमाध्व्योर्गौण- सुरात्वज्ञापनार्थम् । “
- suraa is made from grains. (scotch, beer, whiskey, sake) Those made from molasses/ cane (rum), grapes (wine) are not surA – just madya.
पापम्
पतनीयेष्वन्यतमम् सुरापानम्।
असुरा-मद्यपानं न तावद् घातकम् इति स्पष्टम् प्रायेण –
- It is quoted in Smṛtitattva (p. 225);—in Vīramitrodaya (Āhnika 548);—in Madanapārijāta (p. 814), to the effect that the Mādhvī and the Gauḍī are forbidden only for the Brāhmaṇa, not for the Kṣatriya and the Vaiśya; but they are forbidden for all the three higher castes during the period of studentship;—and in Smṛtisāroddhāra (p. 355). [अनुवादो ऽत्र]
कुतः पापम्?
- सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ … अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्य्यमन्यत् कुर्य्याद्वा ब्राह्मणो मदमोहितः ॥ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वञ्च स गच्छति ॥ (मनुस्मृतौ – केचन प्रक्षिप्त इति।)
प्रायश्चित्तम्
- आपस्तम्बधर्मसूत्रेषु (कल्प-कोशात्। )-
- “सुरा – सुरापोऽग्निस्पर्शां (क्वतिथां) सुरां पिबेत् ३ …स्त्रीणां चैवम्”।
परिस्थितिकलनम्
- धर्मनिष्ठे ब्राह्मणे पापस्यालेपः, साधारणप्रायश्चित्तेष्व् आश्रयो, रहस्ये कृते पापे च लघुतरप्रायश्चित्तम् इत्यादिकम् ऽन्यत्रोक्तम्।
गरुडपुराणे
- (आङ्ग्लानुवादे ५५, १०५। मूलम् अत्र।)
- प्राणत्यागः
- सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः ॥ १,५२.८ ॥ पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते ।
- सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः ॥ १,१०५.२४ ॥ अग्निवर्णं घृतं वापि चीरवास जटी भवेत् । व्रतं ब्रह्महणः कुर्यात्पुनः संस्कारमर्हति ॥ १,१०५.२५ ॥
- ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । न्यस्येदात्मानमग्नौ वा सुसमिद्धे सुरापकः ॥ १,२२२.५२ ॥
- असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् । … त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ॥ १,१०५.५२ ॥ सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।
- तीर्थनिषेवणम्
- ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । पापं तत्संगजं सर्वं गयाश्राद्धाद्विनश्यति ॥ १,८२.१७ ॥
- तिरुपति-पापविनाशिन्यां स्नानम् (विवरणम् अत्र।) – शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् । इयं नदी महाभागे सदा पापविनाशिनी ॥ ३,२७.३ ॥ कलावित्थं विशालाक्षि महिमा दृश्यते भुवि । अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् । ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥ ३,२७.७ ॥ गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः । सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥ ३,२७.८ ॥ ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः । सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥ ३,२७.९ ॥ नानेन सदृशं तीर्थं न भूतं न भविष्यति । स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥ ३,२७.१० ॥
अन्यत्र
-
Vaśiṣṭha (26.5).—‘Even a wine-drinker becomes pure, if he recites the hymn revealed to Kutsa—‘Apnaḥ, etc.’ and the hymn revealed to Vaśiṣṭha—‘Prati, etc.,’ the Māhitra hymn and the Śuddavatīs.’
-
Viṣṇu (55.4).—‘By reciting the Aghamarṣaṇa hymn (and taking one meal of sacrificial food each day, for a month) a wine-drinker becomes freed from sin.’
-
Yājñavalkya (3.303-304).—‘Having fasted for three days, having poured oblations of clarified butter, with the Kūṣmāṇḍa Mantras,—and reciting the Rudra hymn, standing in water, the wine-drinker and gold-stealer become purified; and afterwards a milch cow should be given away.’ [अनुवादो ऽत्र]
-
बृहस्पतिः – गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा- चरेत् । तप्तकृच्छ्रम् पराकञ्च चान्द्रायणमनुक्रमात् ॥