अशुच्य्-उद्भवः
द्विविधा ह्यशुद्धिः पापेन जन्यते - ऐहिक्यामुष्मिकी चेति….,
तयोर् ऐहिकी शिष्टैः सह व्यवहारं वारयति ।
आमुष्मिकी तु नरकं प्रापयति।…,
तत्र प्रकट-पापेषु द्विविधाशुद्धिसद्भावात्
तन्-निवृत्तये प्रायश्चित्त-बाहुल्यम् अपेक्षितम्…,
रहस्ये त्वैहिकाशुद्ध्य्-अभावाद् आमुष्मिक-मात्राशुद्धिः स्वल्पेनापि जप-होमादिना निवर्तते
(अध्याय 12 रहस्यप्रायश्चित्तप्रकरण)
परिस्थितिः
गरुडपुराणे –
देशं कालं वयः शक्तिं
पापं चावेक्ष्य यत्नतः ॥ १,१०५.४७ ॥
प्रायश्चितं प्रकल्प्यं स्याद्
यत्र योक्ता तु निष्कृतिः ।
बलाद् दत्तं बलाद् भुक्तं
बलाद् यच् चाऽपि लेखितम् ।
सर्वान् बल-कृतान् अर्थान्
अकृतान् मनुर् अब्रवीत् ॥ ८.१६८ ॥
इति मनुः।
विस्तारः (द्रष्टुं नोद्यम्)
Purī Śaṅkarācārya ji narrates an incident where Śrī Karapātrī Svāmī met Bengali Brahmins who had been forced to eat beef, etc. He quoted the following verse & told them that they weren’t polluted.
बलाद् दत्तं बलाद् भुक्तं… (मनुस्मृति ८.१६८)
Prāyaścitta of shaving the head, bathing in Gaṅgā and chanting of Rāma-nāma was given to them only to free them from guilt.
कलौ युगे प्रायेण धर्मशास्त्रेषु प्रधानभूतेष्व् अपि लोकानाम् अज्ञानम् महत्।
यथा - ज्ञात्वाऽपि सुष्ठु दोषगाम्भीर्यं ये ब्रह्मबन्धवः पिबन्ति वै सुराम्, ते विरला एव।
ब्रह्मचर्ये च गुरवः प्रमादकराः।
एवं बहवस् सुरापानदोषेणालिप्ताः।
तेषाम् प्रामाणिकानाम् सन्मार्गम् प्रत्यानीतानाम् प्रायेण लघुतराणि स्युः प्रायश्चित्तानि –
सन्तापापेक्षा
Prāyaścitta purifies only those who repent their bad deeds. One who doesn’t repent, won’t be purified even with the puṇya received by performing Aśvamedha.
- Vṛddhahārītasmṛti, 6.214-217
लघु-मार्गः
लघूपायेषु साधारण-विचारो ऽन्यत्र।
साङ्ग-शरणागतिः
अस्ति वस्तुतः सरलम् अपि गम्भीरं प्रायश्चित्तम् - आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्यवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ आत्मनिक्षेपकार्पण्ये षड्विधा शरणागति॥ इति साङ्गप्रपत्तिः
भगवत्-स्मरणम्
“अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥”
मानसिक-स्नानं यथा ऽशक्तौ युज्यते नान्यथा,
तथात्रापि यथोक्तप्रायश्चित्ताशक्ताव् एवैतद् भगवत्स्मरणमात्रादि।
ध्यानम्
नित्याचारप्रदीपे उद्धृताः, Mādhavācārya mentions this as a rahasya-prāyaścitta. पैठीनसिः -
नाश्वमेधेन तत्पुण्यं न च वै राजसूयतः ।
यत्पुण्यमेकतानेन लभेद् योगी स्थिरासनः ।
ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् ।
श्वपाकेष्वपि भुञ्जानो ध्यायी नैव तु लिप्यते ।
धयानमेव परं ब्रह्म ध्यानमेव परं तपः ।
ध्यानमेव परं शौचं ध्यानमेव परं पदम् ।
सर्वपापप्रसक्तोऽपि ध्यायन् निमिषमच्युतम् ।
पुनस्तपस्वी भवति पङ्क्तिपावन-पावनः ।
पक्षोपवासाद् यत् पापं पुरुषस्य प्रणस्यति ।
प्राणायामशतेनैव तत् पापं नश्यते ध्रुवम्
प्राणायामशतेनैव यत् पापं नश्यते नृणाम् । तत् पापं क्षणमात्रेण विष्णोर्ध्यानात् प्रणश्यति ।इति ध्यानम् ।
तर्ह्य् अत्र योगिनाम् इव ध्यानम् उच्यते - अष्टाङ्गयोगवन् न सर्व-सुलभम्।+++(5)+++
अत्र कश्चन पूर्वम् एव पङ्क्तिपावनपावनो दहरविद्यादिनिष्ठो योगी विश्वामित्रादिनिभ एवाधिकारी। अन्यथा पङ्क्तिपावनपावनत्वप्रेसुः कश्चन चण्डालोऽपि किमपि पापं कृत्वा “क्षणं ध्यात्वा” ऽऽत्मनं पङ्क्तिपावनपावनं मन्येत।
नामसङ्कीर्तने
स्वयं विचारयतु -
नित्यं कश्चन गोमांसं खादित्वा “शिव शिव” इति वदति। निष्पापो वा स भवति?
नामसङ्कीर्तनस्य पापक्षयकरत्वं नात्र सन्देहास्पदम् -
अपि तु पापविशेष-यथापेक्ष-नाशकत्वम्।
नामजपेन ये पातकपर्वता नश्यन्ति, ते न खलु स्पष्टाः।
नश्येरन् कानिचित् सञ्चितपापानि।
पुनस् तेषाम् भस्मी-भावेन शुद्ध-मना
पापविशेषे प्रायश्चित्तम् आचरितुं श्रद्धां लभेत,
ततः शुद्धतरश् च भवेत्।
शतशो वचांसि लभ्यन्ते पुराणेषु नामजपस्मरणादीनां सर्वपापनाशकत्वख्यापकानि।
शास्त्रवचनानि नाप्रमाणानि -
तेषां मुग्धावगतिस् तु विपर्यय एव।
यथा केचित् “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजे"ति श्रुत्वा स्वरूपतस् सर्वाणि कर्माणि क्षत्रियोचित-धर्मयुद्धसहितानि तत्यजुः।
यदि मया पापं कृतमिति अनुतप्तः स जातः, क्षमां याचमानः, पुनः न करिष्यामि इति च प्रतिजानानः, शिवनाममाहात्म्यं श्रुत्वा शिव शिव इति जपति, का बाधा शिवस्य शिवनाम्नो वा तत्पापविनाशे?
तत्र साङ्गा प्रपत्तिश् च जपश् चेति द्वे कर्मणी।
प्रकृतपापक्षयकारि पूर्वम् एव।
उत्तरं नेति निश्चयः - पूर्वोक्तप्रसङ्गेन, अपि च पापविशेषविनाशकत्वे प्रमाणाभावात्।
रहस्ये
रहसि कृतञ्चेत् पापम्, तन्निष्कृतिर् लघुतरा भवति। युक्तं तत् – संविख्यातपापानाम् दुष्प्रभावो महत्तरो ननु। यथा –
- गरुडपुराणे
विख्यातदोषः कुर्वीत
गुरोरनुमतं व्रतम् ॥ १,१०५.४९ ॥
असंविख्यातदोषस्तु
रहस्यं व्रतमाचरेत् ।
मनुस्मृतिः
-
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ … कौत्सं जप्त्वाऽप इत्येतद् वसिष्ठं च प्रतीत्य् ऋचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ [अनुवादो ऽत्र]
-
The ‘Kautsa hymn’ is that which was revealed to, and given out by, the sage Kutsa,—the eight verses beginning with ‘Ap naḥ shoshuchadadham, etc.,’ found in the Ṛgveda (1.97.1).
-
‘The Vāsiṣṭha hymn consisting of the triad of verses beginning with “Prati.”’—The group of three verses, ‘prati’ being the opening word of the hymn.—‘Pratistomebhirupasaṃvasiṣṭhāḥ, etc.’ (Ṛgveda, 7.80.1).
-
‘Māhitra hymn’—that revealed to the Mahitṛs,—this also consists of three verses, and contains the term ‘Mahitṛ’ (Ṛgveda, 10.185.1). Some people read ‘Mahendram’ (for ‘Māhitram’); and this would mean the forty-eight verses ‘Mahān Indra ojase, etc. etc.’ (Ṛgveda, 8.8.1),—which is also called the ‘Payḥ-Sūkta.’
-
‘Śuddhavati verses’—‘Eto indrastavāṃśudhim śuddhena, etc.’ (Ṛgveda, 8.95.7).
-
प्रकाशं कृते पापे –
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयो घृतं वाऽ मरणाद् गोशकृद्रसमेव वा ॥ ९१ ॥ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥
[अनुवादो ऽत्र]
धर्मनिष्ठे
धर्म-निष्ठे ब्राह्मणे पापस्यालेपः, साधारण-प्रायश्चित्तेष्व् आश्रयः।
गरुडपुराणे
प्राणायाम-शतं कुर्यात् सर्वपापापनुत्तये ।
ओङ्काराभियुतं सोम-सलिल-प्राशनाच्छुचिः ॥ १,१०५.५४ ॥
अज्ञान-कृत-पापस्य नाशः सन्ध्यात्रये कृते ॥ १,१०५.५५ ॥
रुद्रैकादश-जप्याद्धि पाप-नाशो भवेद् द्विजैः ।
वेदाभ्यास-रतं शान्तं पञ्च-यज्ञ-क्रियापरम् ॥ १,१०५.५६ ॥
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः ।
जप्त्वा सहस्रगायत्त्रीं शुचिर्ब्रह्महणादृते ॥ १,१०५.५७ ॥
प्रतिनिधयः
मार्कण्डेयस्मृतौ-
प्रायश्चित्त-प्रतिनिधिः प्रायश्चित्ते तु संप्राप्ते
साक्षात् कृच्छ्राणि कैरपि ।
नानुष्ठाय च शक्यन्ते
तेषां प्रतिनिधित्वतः ॥
गो-गो-मूल्यादिभिस् तानि
तस्मात् कार्याणि चाखिलैः ।
सेतुगंगास्नानमुखैः
दरिद्रस् तानि चाचरेत् ।अपि तानि कदाचित्तु
स्नानान्यपि विधानतः ॥
द्रव्येण विप्रमुखतः
कर्तव्यानि भवन्त्यपि ।
द्रव्यदानेन सर्वाणि
प्राप्यन्ते निखिलाः क्रियाः ॥
तस्माद् द्रव्यं सर्वकार्य-
मात्रे ह्यावश्यकं परम् ।
तस्मिन् सत्येव सततं
सिध्यन्त्य् अखिल-सत्क्रियाः ॥