Source: Korada-subrahmNya on BVP
प्रस्तावः
प्रायश्चित्तकर्म is to be performed or not ? What is the problem ? Some ब्रह्मवादिन्s argued that the प्रायश्चित्तकर्मs need not be performed - others said hey have to be performed .
गौतमस्मृतौ
This discussion is seen in the earliest स्मृति , viz गौतमस्मृति ( प्रश्नः 3 अध्यायः 1 ) . I did not find anything like this in other स्मृतिs . Haradatta , the author of मिताक्षरा +++(commentary on the गौतमस्मृति)+++, says that प्रायश्चित्तम् is नैमित्तिककर्म ( सायणमाधव in वेदभाष्यभूमिका did not count प्रायश्चित्त , although prescribed in वेद , as a separate कर्म ) –
ब्रह्महत्यादौ निमित्ते कर्तव्यो नैमित्तिको धर्मः प्रायश्चित्तम् । तत्र नैमित्तिकं वक्ष्यन् उक्तम् अनुभाषते –
सू 1 उक्तो वर्णधर्मश्चाश्रमधर्मश्च । (जातौ एकवचनम् - धर्मा इत्यर्थः ) ।
मिता – प्रायश्चित्तस्य निमित्तान्याह –
सू 2 अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यते यथा एतद् अयाज्य-याजनम्, अभक्ष्य-भक्षणम्, अवद्य-वदनं, शिष्टस्य अक्रिया, प्रतिषिद्धसेवनम् इति ।
मिता – अयं पुरुष इति संघात-वर्तिनं प्रत्यग्-आत्मानं+++(=अन्तरात्मनं)+++ निर्दिशति ( प्रत्यग्-आत्मा - लक्षणा - तद्विशिष्टः पुरुषः। लिङ्गम् अविवक्षितम् – स्त्री पुरुषो वा ) । याप्यं कुत्सितम् ( आयुर्वेदे याप्यः - असाध्यः अन्यतरः रोगः) । याप्येन कर्मणा लिप्यते । …. अवद्यम् अनृतासभ्यादि तस्य वदनं कथनम् ( अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु पा सू 3-1-101 ) | …. तत्र उशना –
आपद्-विहितैः कर्मभिः आपदं तीर्त्वा पुनस् तेषां प्रायश्चित्तं चतुर्-भागं कुर्याद् इति ।
अभक्ष्य-भक्षण-ग्रहणम् अपि आपदि व्याध्यादौ लशुनादि-भक्षणविषयं च ।+++(5)+++
( sometimes one has to take something prohibited , such as लशुनम् (garlic) which is a good antibacterial , during some व्याधि | Then he may consume the same and perform पादप्रायश्चित्तम्। We used to give मद्यम् (Brandy) to newly-delivered -ladies as a medicine simply to sustain the body pains - there will be पुण्याहवाचनम् )
शिष्टं विहितं सन्ध्योपासनादि तस्य अक्रिया अकरणम् ।….
सू 3 तत्र प्रायश्चित्तं कुर्यात्, न कुर्यात् इति मीमांसन्ते
मिता – तत्र तस्मिन् याप्य-कर्म-लोपे प्रायश्चित्तम् –
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयोगात् प्रायश्चित्तमिति स्मृतम् ॥
(this verse is from आङ्गिरसस्मृति , 4-1) इत्येवंलक्षणं कर्तव्यं न कर्तव्यमिति विचारयन्ति ब्रह्मवादिनः ।
तत्र केचित् –
सू 4 न कुर्याद् इत्य् आहुः ।
तत्र हेतुः –
सू 5 न हि कर्म क्षीयते इति ।
मिता – हि शब्दो हेतौ । यस्मात् कृतं कर्म पुण्यं पापं च नान्तरेण उपभोगं क्षीयते इति ।……
सू 6 कुर्याद् इत्य् अपरम् ।
मिता – कुर्यात् प्रायश्चित्तम् इति अपरं दर्शनम् । नास्मात्परम् अस्ति इति अपरसिद्धान्तः ।
तत्र प्रमाणत्वेन श्रुतिवाक्यान्युदाहरति –
सू 7 – पुनः स्तोमेनेष्ट्वा पुनः सवनम् आयान्ति इति विज्ञायते ।
मिता – अभक्ष्य-भक्षणम् अवद्य-वदनं पुनः-स्तोमेन तरतीति च । असत्-प्रतिग्रहादि-दोष-दूषिताः पुनःस्तोम-नाम्ना एकाहेन इष्ट्वा पुनः सवनम् आयान्ति । सवनशब्देन कर्म उच्यते । पुनर् अपि श्रौतानि स्मार्तानि च कर्माणि आयान्ति आप्नुवन्ति । तद्योग्या भवन्ति।
सू 8 – व्रात्यस्तोमैश् चेष्ट्वा +++(पुनः सवनमायान्ति)+++।
मिता – पुनः सवनमायान्तीति अनुषङ्गः । व्रात्याः यथाकालम् अनुपनीताः । तेषां कर्तव्याः प्रायश्चित्तयागाः व्रात्यस्तोमाः ( व्रात्य is one who is not उपनीत on time . व्रात्यस्तोम्यागाः are performed for those who are not उपनीत on time - गर्भाष्टामेषु ब्राह्मणम् उपनयीत – आप गृह्य –a ब्राह्मण has to get उपनयनम् at the age of seven years and three months ) .
सू 9 – तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते ।
सू 10 – अग्निष्टुता अभिशस्यमानं याजयेदिति ।
मिता – …. प्रायश्चित्तस्तुत्यर्थोऽयं विचारः । इदनीं येष्व् आहत्य न प्रायश्चित्तं विहितं तेषु प्रायश्चित्तानि उपदिशति –
सू 11 – तस्य निष्क्रयणानि जपः तपः होमः उपवासः दानम् । (निष्क्रयणम् = शोधनम् ) ।
So गौतम quoted श्रुतिs in support of performing प्रायश्चित्तकर्म and कर्मनाश by that .
Other shruti quotes
We may quote further –
स्वाध्यायब्राह्मणम् (तैत्तिरीयारण्यकम् - 2 -15) –
अग्निं वै पाप्मा जग्राह। तं देवा आहुतीभिः पाप्मानम् अपाघ्नन्, आहुतीनां यज्ञेन, यज्ञस्य दक्षिणाभिः, दक्षिणानां ब्राह्मणेन, ब्राह्मणस्य छन्दोभिः, छन्दसाँ स्वध्यायेन अपहतपाप्मा ।
सुश्रुतसंहिता - सूत्रस्थानम् 3 - 26) –
प्रायश्चित्तं प्रशमनं
चिकित्सा शान्तिकर्म च ।
पर्यायास्तस्य निर्देशात्
चिकित्सास्थानम् उच्यते ॥
ज्योतिषम् –
जन्मान्तरकृतं पापं
व्याधिरूपेण बाधते ।
तच्छान्तिर् औषधैर् दानैः
जपहोमसुरार्चनैः ॥
भगवद्गीता ( 4-37 ) –
यथैधांसि समिद्धोऽग्निः
भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि
भस्मसात् कुरुते तथा ॥
Conclusion
You take any पुराणम् - there will you find the details of कर्म and related issues .
If one approaches you requesting for a remedy never say ’ not needed " – because it goes against वेद-वेदाङ्ग -दर्शन-पुराण-इतिहास-उपवेद and so on . न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् – गीता ।