कारणम्
- सेवया सह भक्तिभावना वर्धते, तेन च मन्त्रमयमुर्तेश् शक्तिः।
हृद्यागः
- भूतशुद्धिः
- मनःसंस्कारः
- मन्त्र-जपेन देवप्राप्तिः स्वशरीरे।
- अन्तः सुपूजितस्य देवस्य जाज्वल्यमानस्य +आत्मानो दिदृक्षां तर्पयितुम् बाह्ययागे ऽनुवर्तेत।
बाह्य-यागः
सामग्र्य्-आवलिः
- (पञ्च)पात्राणि
- तोयम्
- दीपः
- (अगरु)धूपम्
- आरतिदीपम् - कर्पूरः
- गन्धः
- हरिद्र-कुङ्कुमादि-मङ्गलद्रव्याणि
- वस्त्रम्
- उपवीतम्
- ताम्बूलम्
- नैवेद्यम् आहारः
- अक्षताः
पूर्वाङ्गम्
- द्रव्यादेः संस्कारः
- शरीर-व्यवस्था
- दर्भकूर्चे वा मूर्तौ वा कलशे वा अग्निज्वालायाम् वा अन्यद्रव्ये
- विघ्न-शान्तिः
- प्राणप्रतिष्ठापनम् आवहनम्
प्राणप्रतिष्ठा
अमुकदेवस्य प्राण इह प्राणः। जीव इह स्थितः।
सर्वेन्द्रियाणि वाङ्मनस्त्वक्-चक्षुः-श्रोत्र-जिह्वाघ्राण-प्राणापानव्यानोदानसमानाः
इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
सान्निध्यं कुर्वन्तु स्वाहा।
-
असुनी+इत्यादिः मन्त्रः
-
अङ्गुलिध्वनिभिः प्रचोदनम्
अमुकदेवप्राणशक्त्यै नमः। अत्रागच्छ।
(आवाहितो |स्थापितो |सन्निहितो | सन्निरुद्धो | अवकुण्ठितो) भव। देव प्रसीद प्रसीद। यावत्कर्मावसानं तावत्त्वं प्रीतिभावेन (मूर्तौ | अग्नौ च) सन्निधिङ्कुरु।
उपचारः
- अर्घ्यम्
- सवितरि क्षेपः, तिष्ठतोन्नीतपार्ष्णिना
- पाणौ वा दानम्
- पाद्यम् आचमनीयम् पानीयम् इत्येतेषां दानम्
- अभिनयः
- स्नानीयम्
- शोषणम्। स्नानान्तय् आचमनीयम्।
- अलङ्कारः
- वस्त्रम्
- उपवीतम्
- मङ्गलद्रव्याणि
- गन्धस्य अर्पणम्
- पुष्पाणि पल्लवानि
- धूपदर्शनम्
- आहार-निवेदनम्
- आहारस्य व्यवस्था
- नारिकेलस्फोटः।
- परिशेचनम्
- यथा स्वकीयभोजने
- आचमन-अशन-अभिनयः
- चमसे जलम् दर्शयित्वा पात्रे क्षेपः
- आहार-अशन-अभिनयः
- “मध्ये मध्ये अमृतम् अर्पयामि” इति वचनम्
- कदलीफलादेः कर्तनम्
- आहारस्य व्यवस्था
- ताम्बूलार्पणम्
- नागवल्लीदलेन साकम् पूगीफलम्
- मङ्गलारतिः
- अथर्ववेद-परिशिष्टे ऽपि दृश्यते - GA
- स्तोत्रम्
- अर्चनम्
- पुष्पदलैर् अर्चनम्
- स्वाहाकारैर् अर्चनम् ज्वालायाम् (अन्तिममन्त्रेण साकन्तु वैषट्-कारः)
- गीत-नृत्य-आदेर् अर्पणम्
- नमस्कारः
उपस्थानम्
- तत्र पुनः पूजा
- “पुनरागमनाय यथेष्टं गच्छतु” इति प्रेषणम्।
- निद्रापणं वा।
बाह्योपचारः सङ्क्षेपेण
- देव-वीर-ऋषि-मूर्तीनाम् अग्रे सभक्ति स्तोत्रवचनम्