स्थूल-क्रमः

  • काल-निश्चयः, मन्त्र-कल्पाद्यवगतिः, यजमान-योग्यता-सिद्धिः (सन्ध्यावन्दनाद्यनुष्ठान-पुनरारम्भेण)।
  • मनः संस्कारः
    • हृष्टमनसा कार्यम्।
    • तत्र - आचमनम्, प्राणायामः, सङ्कल्पः, सात्त्विक-त्यागः …
    • मध्ये कर्मण्य् अपि यथोचितम्।
  • शरीर-संस्कारः
  • स्थल-व्यवस्थापनम्, तत्संस्कारश्च
  • द्रव्य-व्यवस्थापनम्, तत्संस्कारश्च
  • विघ्नोपशमनम्, देवपितृब्राह्मणादिप्रीणनम्
    • तत्र विघ्नेश्वरपूजा, पुण्याहवाचनम्, नान्दीश्राद्धम् …
  • मुख्यं कर्म।
  • कर्मदोषप्रायश्चित्तम् यथापेक्षम्।
  • स्थलशुद्धिः