लघु-गुरु-भेदः

स्नानादिषु नित्य-नैमित्तिक-काम्य-कर्मसु लघु-गुरु-विकल्पा उक्ताः।
तेषु केचन तुल्य-विकल्पाः, केचन व्यवस्थित-विकल्पाः।
तुल्य-विकल्पः - “व्रीहिभिर् यजेत। यवैर् यजेत।” इति यथा।
व्यवस्थित-विकल्पो बहुदा ऽधिकारि-भेदेन वर्तते-
यथा मानसिक-स्नानं ऽशक्तौ युज्यते नान्यथा। व्यवस्थित-विकल्पेषु फलैकदेश-साम्यं दृश्यते।

सहस्रनाम

श्रीरामरामरामेति रमे रामे मनोरमे ।
सहस्रनाम तत्-तुल्यं राम-नाम वरानने ।

इति सर्वोऽपि सहस्रनामपारायणे वदति।
किं तर्हि समस्रनामवचनेन तत्-कण्ठस्थीकरणादिना वा?

साम्प्रदायिकानाम् एवम् परिहारो युक्तः -

  • तत्र फलैकदेश-तुल्यत्वम् उक्तम् अत्र।
    सहस्र-नाम-स्तोत्र-वचने गुणानुभवोत्कर्षो व्यक्तः।
  • पुनर् अत्र व्यवस्थित-विभाषा -
    पूर्णस्तोत्रवचनावकाशाभावे ऽशक्तौ वा रामनाम वदेद् व्रतभङ्गवारणाय।

शिष्टैर् एतद् विचारितचरम् - नवीन-सिद्धान्तोद्घाटनस्यापेक्षैव नास्ति।

व्यवस्थित-लघु-विकल्पेषु फल-साम्याग्रहस्य फलम्

केचित् तु “रुद्रनामवचनं सहस्राश्वमेधतुल्यम्” इत्यादिषु सर्वथा-तुल्य-फलं ब्रुवाणा प्रतारयन्ति।
आविष्क्रियमाणोऽयम् अध्वा कस्य कल्याणाय कल्पत इत्य् अपि विचारणीयम्।
अनेनादाव् अल्पधीर् जनः शून्यव्रत आचारहीनो ऽविदग्धस् तेजोहीन एव सञ्जायते,
नाम-कीर्तन–तथा-कथित-ध्यानादि-मात्रेण तुष्टः।
पुनस् सहवास-दोषाद् अन्येऽपि भ्रश्यन्ति।
ततः समाजे नष्टाग्निके “किं वेदैर्” इत्य् उष्णीष-मोहादयो वर्धन्ते ।

न च कस्यचनोपकारः।
न हि कश्चनास्तिकः - “इदं व्रतं प्रायश्चित्तं कर्म वा न साधयितुं शक्नोमी"ति खिन्नो दृश्यते। यथाशक्त्य् एव कर्माणि कार्याणीति शास्त्राभिप्रायः।
केवलम् “अहं सोमयाजितुल्यः। अश्वमेधः? ततोऽधिकोऽहम्। अहं पङ्क्तिपावनपावन” इति दुर्-अहङ्कार एव वर्धते।

स्यान् नाम पुरा ऽद्य वा ऽग्निहोत्रिषु
“यावज्जीवम् अग्निहोत्रं जुहुयात्”, “सोमेन यजेते"त्याद्य् अनुसरत्सु
नाम-जप-गौरव-बोधनाय “रुद्रनामवचनं सहस्राश्वमेधतुल्यम्” इत्यादीनि वाक्यानि।