Sourcing स्रोतः

आपणीयान्नेषु नियमः

उत्सर्गः

अन्नविक्रयस् तु ब्राह्मणेषु निषिद्धः।
“नापणीयम् अन्नम् अश्नीयाद्” इत्य् आपस्तम्बः।

अपवादः, संस्कारः

परोक्षम् अधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् ॥
तथापणेयानां च भक्षाणाम् ॥

इति च बोधायनः

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

इति तु स्व-पाक-विषयो भाति।
अथवा तद् आपणिकेन कार्यम्।
तेन न कृतं चेत् तर्पणेनार्पयितुं शक्यम्?
एवं मनसाऽभिनयेन च भगवन्निवेदनम् अपि।

बोधायन-सूत्र-टीकाकृद् गोविन्दः -
मण्डकापूप-सक्तु-मोदकादयस् सूचिता इति वदति।

तथाच शङ्खः -

‘आकर-जानाम् अभ्युक्षितानां
घृतेनाभिघारितानाम् अभ्यवहरणीयानां पुनः-पचनमेव समानम्’

इत्यादिना ॥ ६१ ॥

एष्व् अपवादेष्व्
अभोज्य-वर्जितानाम् आधुनिकानां यन्त्रनिर्मितान्नानाम् अप्य्
सङ्ग्रहणम् उचितम्।

विक्रेता, भाण्डलेपः

स्मृतिचन्द्रिकायाम् -

शूद्रदत्तं न भक्षयेत् । …
अपूपाः सक्तवो धानास्
तक्रं दधि घृतं मधु ।
एतत् पणेषु भोक्तव्यं
भाण्डलेपो न चेद् भवेत् ॥

इति।

एवं वैश्यादि-विक्रीतम् अपूपादि गृहीतुं शक्यम्।
सच्छूद्रा वैश्यतुल्या इति मन्तुम् अलम् इति विश्वासः।

भृत्य-नियुक्तिः

भोजन-शालासु, यत्र भृत्या नियुज्तन्ते “अस्मभ्यम् इदम् इदम् पचित्वा देही"ति
तत्र भृत्यनियुक्तिः स्यात्,
न तावद् अन्न-विक्रय-दोषः,
न चापणीयान्नाशनम्।
किञ्च पूर्वसिद्धान्न-क्रय-विक्रये न स्याताम्।

लक्ष्यम्

एवं वेङ्कण्णार्यस्य भोजनशाला बॆङ्गळूरु-नगरे 1905-वर्ष-परिसरे ऽवर्तत,
यत्र भोक्तारः पूर्वेद्युर् एव धनं समर्पयन्ति स्म,
परेद्युश् च वर्णाचारानुसारं भिन्न-स्थानेषूपविश्याश्नन्ति स्म।

विक्रीत-प्रसादः

देवायतनेषु तर्हि ब्राह्मणा अप्य् अन्यापणान्य् अपि च यद् विक्रीणन्ति प्रसाद इति, तत्र विचिकित्सा जायते।

द्राविड-देशः

None of the prasadam sold in prasadam stalls of govt run TN temples r naivedya prasadams. No point in buying them.

इति रविलोचनः।

प्रायेण सर्वत्र +आलयेषु +आपणे भगवद्-अ-निवेदितम् अन्नमेव प्रसाद इति दीयते।

इति शठकोपतातार्यः

Tirupati

As far as TTD is concerned, it would be against the Agamas to offer them as they are prepared by anarhas - Vaikahasa sastra requires only Vaikhanasas to participate in pAka-yajna.

Some laddus were offered to the Lord and then they are broken down and mixed with the rest of the laddus. Used to be done many decades ago, IMHO. There was no mechanisation of the preparations process or use of piped water and gas stoves for cooking in those days.

इति स्नेहिताः।

अभोज्य-मिश्रणापायः

विश्वास-टिप्पनी

Caution while eating out:

Thai food almost universally uses fish sauce.
Double check in restaurants of mAmsAhAri cultures.

द्वि-पाक-निषेधः

यद् यद् द्विःपक्वं तत् सर्वं नाश्नीयात्

इति वर्तते ।

द्विःपक्वं नाम तद् उच्यते
यत् प्रथमपाकत एव भक्षण-योग्यतया पक्वं सद् अपि
मार्दवादि-गुणान्तरं संपादयितुं पुनः पच्यते ।

इति स्मृतिचन्द्रिका।

Odd items

  • Chinese urine eggs: TW
  • Korean Ttongsul - kid feces rice.