निवेदनम् पूर्वेद्युः
- शुचित्वादिगुणसम्पन्नेभ्यः श्वित्रादिदोषवर्जितेभ्यः कृतसायमाह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
- मासिश्राद्धे
- तत्र प्रथमं यज्ञोपवीती भूत्वा"श्वो मासिश्राद्धं भविता, तत्र भवद्भिर्विश्वदेवार्थे क्षणः कर्तव्यः"इति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
- ततःप्राचीनामीती “पित्रर्थे क्षणः कर्तव्यः"इति पित्रर्थेभ्यः ।
- “पितामहार्थे क्षणः कर्तव्यः"इति पितामहार्थेभ्यः ।
- प्रपितामहार्थे क्षणः कर्तव्यः"इति प्रपितामहार्थेभ्यः ।
- एकब्रह्मणपक्षे तु “पितृपितामहप्रपितामहार्थे क्षणः कर्तव्यः"इति मातामहश्राद्धकारी चेत्, ऊहेन “मातामहार्थे क्षणः"इत्यादिना निवेदयेत् ।
- भोक्तॄणामपि मनूक्तोऽक्रोधत्वादिः ।
प्रातरानीय सत्कारः
- अथापरेद्युः प्रातस्तान् ब्राह्मणान् गृहमानीय आचान्तानासनेषूपवेश्य पूर्ववद्द्वितायमामन्त्रणम् ।
- “पूर्वेद्युर्निवेदनं अपरेद्युर्द्वितीयं तृतायं चामन्त्रणम्”
- अथ तेषां पादान् कुण्डेषु सकूर्चतिलेष्ववनिज्याचमय्य
- कृसरताम्बूलादीनि दत्वा
- अभ्यज्य स्नानार्थं प्रस्थापयेत्, यद्यपराह्णे कर्म।
भोजनात् प्राक् सत्कारः
- ततोऽपराह्णेप्राचीनावीती ब्राह्मणान् प्रक्षालितपाणिपादानाचान्तानासनेषूपवेशयति ।
- तत्र विश्वदेवार्थान् प्राङ्मुखान् प्राक्कूलेषु दर्भेषु पित्राद्यर्थानुदङ्मुखान् द्विगुणभुग्नेषु दक्षिणाग्रेषु दर्भेषु ।
- श्राद्धागार-विशेषा “स्थल-संस्कार” इत्यत्रोक्ताः।
अर्घ्यम्
- उदकपात्र-व्यवस्था
- स्थण्डिलेषु यथावकाशं पित्रादिभ्यस्रिषु पात्रेषु एकस्मिन् वा शास्त्रान्तरोक्तविधिनार्घ्यार्थमुदकग्रहणम् ।
- विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे ।
- तानि गन्धादिभिरभ्यर्च्य, दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य
- आसनगतानां ब्राह्मणानां हस्तेषु स्वस्मात्स्वस्मादुदपात्रात्पात्रान्तरेणाप आदाय"विश्व देवाः इदं वो अर्घ्य"“पितृपितामहप्रपितामहाइदं वो अर्घ्य"इति वार्घ्याणि ददाति ।
- पुरस्तादुपरिष्टाच्चर्घ्यदानाद्धस्तेषु शुद्धोदकदानम् ।
- इदमेवार्घ्यदानं श्राद्धे स्वधानिनयनमुदपात्रानयनमिति चोच्यते ।
शिष्टोपचारः
- ततो गन्धादिभिर्वासोभिरङ्गुलीयकादिभिश्च यथाविभवं ब्राह्मणानामभ्यर्चनम् ।
- अपेक्षित-विशेषकर्माणि कृत्वा
- मासि श्राद्धस्य विशेषो ऽन्यत्रोक्तः
- अथ पृथक्पृथक्तृतीयमामन्त्रणं पूर्ववदेव कृत्वा
- उदाहरणम् “निवेदनम् पूर्वेद्युर्” इत्यत्र दर्शितम्
- त्रिष्वपि चामन्त्रणेषु “ओं तथा"इति प्रतिवचनं ब्राह्मणानाम् ।
भोजनम्
- विभवे सति सर्पिर्मासादीनि विशिष्टानि दद्यात्॑भावे तैलं शाकमिति ।
- धर्मशास्त्रमितिहासपुराणानि चाभिश्रावयति ।
- तृप्तांश्च ज्ञात्वा मधुमतीश्श्रावयति,“अक्षन्नमीमदन्त"इति च ।
प्रस्थापनम्
- अथाचान्तेषु पुनरपो दत्वा “स्वदितम्” इति पित्राद्यर्थान् वाचयति, “रोचयते"इति विश्वेदेवार्थान् ।
- ततो यथाशक्ति दक्षिणां दत्वा